This page has not been fully proofread.

न्यायकोशः ।
 
(त० प्र० ३ ) ( दि० ३१९७०-१७१ ) ( म० प्र० ३।३४ )
( म्या० बी० ३ पृ० १९) । अत्रातिदेशबाक्पार्थविविधः प्रतिगृझते।
साधर्म्य धर्ममात्रं च वैषम्यै चेति मेदतः ॥ इति (ता० र० लो० २३ ) ।
उपमेयत्वम् सादृश्यानुयोगित्वम् । यथा चन्द्रवम्मुखमित्यादौ मुखस्योप-
मेयत्वम् । शाब्दिकास्तु साधारणधर्मवत्तया परिच्छेयत्वमुपमेयत्वम्
इत्याहु: ( ल० म० ) ।
 
उपयोगः – १ [क ] इष्टसाधनत्वम् । यथा यागः स्वर्गोपयोगीत्यादौ
यागस्य स्वर्गात्मकेष्टसाधनत्वम् । [ख] आनुकूल्यम् । यथा अथवा
कार्यनिर्वृत्तेरुपयोगो यथाक्रमम् ( सुश्रु० ) इत्यादौ । यथा वा अनङ्ग-
लेखक्रिययोपयोगम् ( कुमार० स० १ श्लो० ७ ) इत्यादौ ( वाच • ) ।
२ सहजचिद्रूपपरिणति स्वीकुर्वाणे ज्ञानदर्शने उपयोगः ( सर्व० सं०
पृ० ६७ आई० ) । ३ विवक्षितार्थपरिच्छित्तिलक्षणोर्थग्रहणव्यापार
उपयोग इति बृहद्रव्यसंग्रहे ।
 
उपरवः - ज्योतिष्टोमे हविर्धानमण्डपे सोमाभिषवाधारयोः फलकयोरधस्ता-
चतसृष्णाम्नेष्यादिविदिक्षु चत्वारो गर्ता अरनिमात्रखाता अधोमागे पर-
स्परं मिलिता ऊर्ध्वमागे परस्परं प्रादेशमात्रव्यवहिता उपरवनामकाः
( जै० न्या० अ० ३ पा० ८ अघि० १६) ।
 
उपलक्षणम् – ( व्यावर्तकम् प्रकारो वा ) [ क ] प्रत्याय्यव्यावृत्यधिकरण -
तावच्छेदकान्यत् व्यावर्तकम् । प्रत्याय्यव्यावृत्तिकारणताबच्छेदकान्यत्
इति पाठान्तरम् । अत्र विशेषः । उपलक्षणं स्वानधिकरणेपि व्यावृत्तिं
बोधयति इति ( चि० १ पृ० ३४ ) । अत्रेदं बोध्यम् । उपलक्षणस्य
शाब्दबोधे भानं नास्तीति सिद्धान्तः । अत्रोपलक्षणत्वं च तत्पदजन्य-
बोधविषयत्वेन शक्तयविषयत्वम् ( दि० ४ पृ० १७९) । भगवदि-
छायां बोधविषयत्वेनाभासमानत्वे सति भासमानविषयांशे प्रकारत्वमिति
मिश्राः । शाब्दिकास्तु तत्पदजन्यबोधविषयत्वेन शत्तयविषयत्वे सति
शक्तिविषयत्वम् । यथा धातूनां व्यापारमात्रबाचकत्वबादिनां प्राचीन-
नैयायिकानां मते फलस्योपकक्षणत्यम् इत्यादुः (बै० सा० ६० ) ।