2023-02-20 00:54:35 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१६९
स्वात् इति ( न्या० म० ३ १० २५ ) । गवयो गवयपदबाच्यः
इत्याकारिका उपमितिरिति नवीननैयायिकाः प्राडु: (मु० ३पृ० १७१) ।
[ च ] शक्तिपरिच्छित्तिः ( स० प्र० ख० ४ पृ० १ ) । यथा गवयो
गवयपदवाभ्यः इति । उपमितित्वं च उपमिनोमीत्यनुभवसिद्धो जाति-
विशेषः । अथवा शब्दविषयकत्वाव्यभिचारिजातिमत्परोक्षत्वम् ( न्या०
म० ३ पृ० २४ ) ( नील० ३ पृ० २७ ) । अत्र अनुमित्यादिवारणाय
जातिमदन्तम् । श्रवणवारणाय परोक्षपदम् प्रत्यक्षान्यपरम् ( न्या०
म० ३ पृ० ४ ) । यद्वा सादृश्यविशिष्ठे पदबाच्यत्वप्रकारकस्मृतित्वावच्छि
भकारणतानिरूपितकार्यत्वम् (वाक्य ०३ पृ० १८) । अत्रेदं बोध्यम् ।
उपमितिर्हि पदवाच्यत्वविषयिका पदं च शब्दात्मकम् इत्युपमितेः शब्द-
विषयकत्वनियम इति ( न्या० म० ३ पृ० २४ ) । सा च प्रत्यक्षादि-
म्योतिरिक्तैव । इयं प्रमितिः प्रत्यक्षादिप्रमितिम्यो भिद्यते तद्विरुद्धधर्मत्वा-
दित्यनुमानस्य प्रमाणत्वात् । उपमिनोमीति विलक्षणप्रमितित्वाञ्चोपमितिरति-
रितेति सिध्यति ( त० प्र० ३ ) । कणादमते गवयपदं सप्रवृत्तिनिमित्तकं
साधुपदत्वादित्यनुमानेनैवात्रापि निर्वाहः । उक्तानुमाने श्व पक्षधर्मताबलाद्ग-
वयत्वप्रवृत्तिनिमित्तकत्वं पर्यवस्यतीत्यनुसंधेयम् ( त० १० १० ९८ ) ।
उपमितेरुत्पत्तिप्रकारस्त्विस्थम् । गवयशब्दार्थमजानन् कश्चिनागरिकः
कंचिदनेचरं कीदृशो गवयपदवाच्यः इति पृच्छति । ततस्तेन गोसदृशो
गवयपदबाच्यः इत्युत्तरितः स कदाचिद्वनं गतो गोसदृशं पिण्डं पश्यन्
प्रागुक्तातिदेशवाक्यार्थी स्मृत्वा असौ गवयपदवाच्यः इति प्रतिपद्यते । सा
उपमिति: ( त० कौ० ३ पृ० १६ ) ( न्या० म० ३ ० २४)
( स० मा० पृ० १७) । अत्रेदमवचेयम् । अतिदेशवाक्यार्यज्ञानं
शाब्दबोधरूपं करणम् । अतिदेशवाक्यार्थस्मृतिर्व्यापारः । सादृश्य-
विशिष्ठपिण्डदर्शनं सहकारि । उपमितिः फलम् । इति प्राचीननैयायिक-
मतम् । सादृश्यप्रत्यक्षं करणम् । अतिदेशवाक्यार्थस्मृतिः व्यापारः ।
अत्र सादृश्यविशिष्टपिण्डदर्शनस्योद्घोषकविषया तादृशवाक्यार्थस्मारकत्वात् ।
उपमितिः फलम् । इति नवीन नैयायिकमतम् (न्या० म० ३१० २५ )
२२ म्या को●