This page has not been fully proofread.

न्यायकोडः ।
 
विधर्मगुणक्ती इत्यनुभषः । तृतीयम् गन्धवती पृथिवी इत्यनुभवः इति ।
( न्या० म० पू० २४-२५ ) ( म० प्र० ३ पृ० ३५ ) ( दिन० ३
पृ० १७२ ) । अत्र अयं ( गवयः ) गबयपदवाच्यः इति इयं ( पृथिवी)
पृथिवीपदवाच्या इति इयं पृथिवीपदवाच्या इति च क्रमेणोपमितय
उत्पद्यन्ते इति विज्ञेयम् ( न्या० म० ३ पृ० २४-२५ ) ( म० प्र० ३
पृ० ३५ ) ( दि० ३ पृ० १७२ ) । एबम् कीदृक् करभपदवाच्यः
लम्बग्रीवः प्रलम्बोष्टः कठोरकण्टकाशी इति प्रश्नोत्तरेपि धर्ममात्रोपमानं
ज्ञेयम् ( म० प्र० ३ पृ० ३५ ) । २ उपमितिः । ३ आलंकारिकास्तु
सादृश्य प्रतियोगि उपमानम् । यथा चन्द्र इव मुखमित्यादौ चन्द्र उप-
मानम् इत्याडुः ।
 
१६८
 
३ पृ० २४ )
 
उपमितिः– ( अनुभवः ) [ क ] नियतधर्मसमानाधिकरण प्रवृत्तिनिमित्त
ज्ञानम् । प्रवृत्तिनिमित्तत्वं च प्रकारतया शक्तिमहविषयत्वम् । [ ख ]
अगृहीतसमयसंज्ञाया वाक्यार्थसामानाधिकरण्येन संज्ञानिमित्त परिच्छेदः ।
[ग] किंचिद्राक्यार्थसामानाधिकरण्येन संज्ञानिमित्तपरिच्छेदः । यथा
गवयत्वविशिष्टो धर्मी गबयशब्दबाच्यः इति प्रवृत्तिनिमित्तविशेषपरि-
च्छित्तिरुपमितिः (चि० ३ पृ० १५ - १७ ) । [ ] लिनस्वादि-
क्षणातिदेशवाक्यार्थज्ञानजन्यज्ञानम् ( दीभि० ) । [ ] सादृश्यज्ञान-
करणकं ज्ञानम् (मु० १ पृ० १११ ) ( न्या० म० ३
( स० प्र० ) ( त० सं० ) । तच ( उपमित्यात्मकं ज्ञानम् ) संज्ञा-
संज्ञिसंबन्धज्ञानम् (त० सं० ) ( न्या० बो० ३ पृ० १९) । यथा
व्ययं गवयपदबाज्यः इति ज्ञानम् उपमितिरिति प्राब: ( त० सं० ३ ) ।
शब्दशक्तिब्रहविशेष इत्यर्थ: ( मा० १०३ श्लो० ८१ ) । तथाहि
संज्ञा पदम् । संज्ञी पदार्थः । तयोः संबन्धः शक्तिः । सञ्हानमित्यर्थः
( न्या० बो० ३१० १९) ( नील० ३ १० २७) । तयोः संबन्धो
बाजवाचकमावः (वाक्य० ३ पृ० १८) । अत्रेदं बोभ्यम् । अयं
गवयपदबाच्यः इत्याकारिकायामुपमितौ गवयत्वावच्छेदेन गवयपद-
बाध्यत्वमनगाइते न तु गोसादृश्यावच्छेदेन । तस्य गौरवेणानबच्छेदक-