This page has not been fully proofread.

न्यायकोषः ।
 
१६७
 

 

 
व्यापारः । उपमितिः फलम् इति । प्राचीननैयायिकमतमेतत् । अथवा
अतिदेशवाक्यार्थस्मरणसहकृतं सादृश्यविशिष्टज्ञानमुपमितिकरणम् । यथा
गोसादृश्यविशिष्टपिण्डज्ञानम् ( त० भा० ३ पृ० १७ ) ( सि० च० ३
पृ० ३० ) । आगमस्मृतिसहितं सादृश्यज्ञानमुपमानमिति जरन्नैयायिका
जयन्तप्रभृतयः (चि० ३१० १० ) । [घ ] सादृश्यप्रमाकरणमिति
मायावादिनः ( वेदान्तपरि० ) ( चि० ३ पृ० १) । [ ङ ] भागमा-
हितसंस्कारस्मृत्यपेक्षं सारूप्यज्ञानमुपमानम् ( न्या० वा० १ पृ० १६ ) ।
[च ] अव्युत्पन्नपदोपेतवाक्यार्थस्य हि संज्ञिनि । प्रत्यक्षप्रत्यभिज्ञानमुप-
मानमिहोच्यते ॥ इति ( ता० २० श्लो० २२ ) । वैशेषिकाः सांख्याश्च पद-
वाच्यत्वव्याप्यसादृश्यादिपरामर्शात्पदवाभ्यस्वस्यानुमितिरेव । अतो नोपमानं
प्रमाणान्तरमित्याहुः ( सां० कौ० ) । तञ्चिन्त्यम् । व्याप्तिज्ञानमन्तरेणापि
पदवाच्यत्वप्रमितेः शब्दादितोनुभवसिद्धत्वात् ( नील० ३ पृ० २७ )
( न्या० म० ३ । २४ ) ( चि० ३ ) ( मा०प० लो० १४२ ) । अनु-
मिनोमि इत्यनुव्यवसायविषयीभूता अनुमितिर्यथा प्रमित्यन्तरं तथा उपमि-
नोमि इति विलक्षणानुष्यवसायविषयीभूतोपमितिरपि प्रमित्यन्तरम् इति तत्क-
रणत्वेनोपमानं प्रमाणान्तरमिति नैयायिकाः प्राडुः (राम० ३ पृ० १७३) ।
वयं तु ब्रूमः । अयं गवयपदबाच्यः इत्यायुपमिती गवयादिशब्दवाच्यस
गवयत्व विशिष्टपिण्डस्येष गवयादिशब्दस्यापि विषयत्वेन सकलप्रमिति-
वैलक्षण्येनोपमितेः सर्वैरप्यभ्युपगन्तव्यतया तत्करणत्वेनोपमानस्य प्रमा-
णान्तरत्वमावश्यकम् इति । उपमानं त्रिविधम् । सादृश्यविशिष्टपिण्ड-
ज्ञानम् असाधारणधर्मविशिष्टपिण्डज्ञानम् वैधर्म्यविशिष्टपिण्डज्ञानं चेति ।
तत्राद्यम् गोसादृश्यविशिष्टपिण्डज्ञानम् । द्वितीयम् खगमृगज्ञानम् ।
तृतीयम् उष्ट्रज्ञानम् (सि० च० ३१० ३० ) । खगमृगे असा
धारणधर्मच नासिकालसदेकशङ्गत्वम् इति ज्ञेयम् । उद्वे वैधर्म्यं तूमत-
पृष्ठदीर्घग्रीबादि ऊम् । प्रकारान्तरेणोपमानं त्रिविधम् । साधर्म्यापमा
नम् वैधर्म्यापमानम् धर्ममात्रोपमानं चेति ( म० प्र० ३ पृ० ३४ ) ॥
तत्राथम् गोसहसपिण्डानुभवः । द्वितीयम् इयं ( पृथिवी ) जनादि-
-