This page has not been fully proofread.

न्यायकोशः ।
 
णोपमितिकरणत्वेनोपमानमपि प्रमाणान्तरम् इति ( म० प्र० ३ पृ०
३५) । लक्षणं तु उपमितिकरणत्वम् ( चि० ३ पृ० १७) ।
शान्दिकास्तु साधारणधर्मवत्त्वेनेषदितर परिच्छेदकत्वम् इत्याहु: ( उ०
म० ) । किं पुनरत्रोपमानेन क्रियते । यदा खल्वयं गवा समानधर्मे
प्रतिपद्यते तदा प्रत्यक्षतस्तमर्थ प्रतिपद्यत इति । समास्यासंबन्धप्रतिपत्ति-
रुपमानार्थ इत्याह । यथा गौरेवं गवय इत्युपमाने प्रयुक्ते गवा समान-
धर्ममर्थमिन्द्रियार्थसंनिकर्षादुपलभमानोस्य गवयशब्दः संज्ञेति संज्ञा-
संज्ञिसंबन्धं प्रतिपद्यत इति । यथा मुद्गस्तथा मुद्रपर्णी यथा माषस्तथा
माषपर्णीत्युपमाने प्रयुक्त उपमानात्संज्ञासंझिसंबन्धं प्रतिपद्यमानस्तामोषधी
भैषज्यायाहरति ( वात्स्या० १।१।३ ) । [ख] सप्रतियोगिकपदार्थ-
ज्ञानेन तत्प्रतियोगिकपदार्थज्ञानम् ( चि० ३ पृ० ८ ) । [ग] उप-
मितिकरणम् । तच्च सादृश्यज्ञानम् । यथा गोसदृशो गवयः इति ज्ञान-
मुपमानं भवति ( त० सं० ३ ) ( न्या० म० ३ पृ० २४) ।
अत्रेदं बोध्यम् । उपमितिकरणमुपमानमित्यत्रोपमानमित्यस्योपमानपदवाच्य-
मित्यर्थः । तथा चोपमानपदवाच्यमुपमितिकरणमिति वाक्यार्थः । यथा-
श्रुत उपमानशब्दस्य करणव्युत्पत्स्योपमितिकरणार्थकत्वेनानन्वयापातात् ।
दण्डवान् दण्डवानित्यत्रोद्देश्यतावच्छेदकविधेययोरैक्येऽनन्वयस्य सर्वसंमत-
त्वादिति ( म० प्र० ३ पृ० ३४ ) । सादृश्यज्ञानमिल्यस्य सादृश्यप्रका-
रकं ज्ञानमित्यर्थः ( सि० च० ३ पृ० २९ ) । अत्र भाष्यम् उपमानं
सारूप्यज्ञानम् । यथा गौरेवं गवय इति । सारूप्यं तु सामान्ययोगः
( वात्स्या० ११ १२ १३ ) । उपमानस्योपमितिकरणस्वं चेत्थम् । कश्चिद्गवय-
शब्दवाच्यमजानन्कुतश्चिदारण्यकपुरुषात् गोसदृशो गवयः इति श्रुत्वा
वनं गतो वाक्यार्थी स्मरन्गोसदृशं पिण्डं पश्यति । तदनन्तरं अयं गवय-
पदवाच्यः पिण्डः इति संहासंज्ञिसंबन्धप्रतीतिरुपमितिरुत्पद्यते। सैव फलम्
इति ( त० सं० ) ( त० मा० पृ० १७ ) ( सि० च० ३ पृ० ३०) ।
यद्वा अतिदेशबाक्यार्थज्ञानमुपमितिकरणम् ( न्या० बो० ) । अतिदेश-
वाक्पार्थस्य ज्ञानं ( अनुभवः ) करणम् । अतिदेशवाक्यार्थस्मरणं