This page has not been fully proofread.

१६४
 
न्यायकोशः ।
 
उपपत्तिसमः ~~( जाति: ) [ क ] उभयकारणोपपत्तेहपपत्चिसमः ( गौ०
५/१/२५ ) । यद्यनित्यत्वकारणमुपपद्यते शब्दस्वेत्यनित्यः शब्दः तदा
नित्यत्वकारणमप्युपपद्यतेस्यास्पर्शस्वमिति नित्यत्वमप्युपपद्यते । उभय-
स्यानित्यत्वस्य नित्यत्वस्य च कारणोपपत्या प्रत्यवस्थानमुपपत्तिसमः ।
( वात्स्या० ५/१२/२५ ) । बाघदेशनाभासः प्रतिरोधदेशनाभासो वायम्
इति ज्ञेयम् ( गौ० वृ० ५/१/२५ ) । [ ख ] व्याप्तिमपुरस्कृल्प
यत्किंचिद्धर्मेण परपक्षदृष्टान्तेन स्वपक्षसाधनेन प्रत्यवस्थानम् । यथा
शब्द: अनित्यः कृतकत्वादित्युक्ते यथा त्वत्पक्षे अनित्यत्वे प्रमाणमस्ति
तथा मत्पक्षोपि सप्रमाणकः त्वत्पक्षमत्पक्षान्यतरत्वात् त्वत्पक्षवत् । तथा
च बाध: प्रतिरोधो वा ( गौ० वृ० ५/१/२५ ) [ग] उभयपक्ष-
साधर्म्येण साधनोपपत्तिकथनम् । यथा यदि चानित्यत्वसाधनं कार्यस्व-
मुपपद्यत इति शब्दस्यानित्यत्वं तदा नित्यत्वसाधनमपि किंचिदुपपद्यत
इति नित्यत्वं किं न स्यादिति ( नील० १० ४४ ) ।
उपपदम् – १ समीपोच्चारितः पूर्वमुच्चार्यः शब्दः । यथा तस्याः स राजो-
पपदं निशान्तम् ( रघु० स० १६ श्लो० ४० ) । फलन्ति कल्पोप-
पदास्तदेव ( माघ० स० ३ श्लो० ५९ ) इत्यादौ । २ नामोत्तर-
मुञ्चारितः शर्मवर्मादिशब्दः । ३ शाब्दिकास्तु सप्तम्यन्तेन निर्दिश्यमानं
पदम् । यथा कर्मण्यण् ( पा० सू० ३ । २ । १ ) इत्यादौ कर्मणि इति
सप्तम्यन्तेन निर्दिश्यमानं कुम्भकार इत्यादौ कुम्मादिकं पदं अण्प्रत्यय-
विधाने उपपदम् इत्याहु: ( वाच० ) ।
उपपदसमासः - ( यौगिकं नाम )
 
धातुकृद्भ्यां निष्पन्नं यस्योत्तरपदं
शब्दान्तरानुत्तरं सद्यादृशार्थस्य बोधं प्रत्यसमर्थ तादृशार्थकान्स्यपदकः
समासः स उपपदसंज्ञकः । यथा कुम्भकारः क्षीरपायीत्यादावुपपद-
समासः । अत्रोत्तरपदशब्दः समासचरमावयवे रूढ इत्यनुसंधेयम् । अत्र
तु समासे धातुकृत्र्यां निष्पनं कर्त्राद्यर्थकं कारादिपदम् पदान्तरानुचरं
सन्न कर्त्रा देरन्वयबोधक्षममिति लक्षणसमन्वयो बोभ्यः ( श० प्र० पू०
६६) । एवं क्षीरपायीन्यादावप्यूझम् । उपपदसमासच उपपदमतिङ्
( पा० सू० २/२/१९ ) इत्यनेन भवतीति ज्ञेयम् । उपपदसमासश्च