2023-02-20 00:54:33 by ambuda-bot
This page has not been fully proofread.
न्यायकोञ्चः ।
१६३
अत्र व्युत्पत्तिः । सेयं ब्रह्मविद्योपनिषच्छन्दवाच्या तत्पराणां सहेतोः
संसारस्यात्यन्तावसादनात् । उपनिपूर्वस्य सदेस्तदर्थत्वात् । तादर्थ्याइन्यो-
प्युपनिषदुध्यते ( बृ० शं० मा० ) ।
उपनीतमानम् -- १ उपनीततत्तादिविषयकत्वम् । यथा प्रत्यभिज्ञात्मके घटो
नास्ति सुरभि चन्दनम् इत्यादौ प्रत्यक्ष उपनीतमानम् । अत्र उपनीतस्य
ज्ञातस्य भानम् विषयिता इति विग्रहः । अत्रायं विशेषोवधार्यः । इदमुप-
नीतभानं प्रत्यक्ष एव तिष्ठति न त्वनुमित्यादावपीति ( ग० बाघ ०
पृ० २१ ) ( दीधि ० २ पृ० २२२) । २ लौकिकालौकिकोभय-
संनिकर्षजन्यं ज्ञानम् । यथा सुरभि चन्दनम् इति प्रत्यक्षमुपनीतभानं
भवति । तथ्य सौरम्यांशे अलौकिकसंनिकर्षः चन्दनांशे लौकिक-
संनिकर्षश्चैतदुभाम्यां जन्यत इति बोध्यम् । अत्र उपनीतस्य भानं यत्र
तत् इति व्युत्पत्तिर्द्रष्टव्या ।
उपनीतम् – ज्ञानलक्षणसंनिकर्षेण ज्ञातम् । यथा उपनीतं विशेषणतयैव
भासते मानसे तु नायं नियम इत्यादौ ( वाच० ) ।
-
उपन्यासः - १ वाक्योपक्रमः । २ वाक्यप्रयोगः । यथा तस्माद्रह्मजिज्ञासो-
पन्यासमुखेन ( शा० भा० ) इत्यादौ । ३ विचार: ( कुल्लूकमट्टः
९ । ३१ ) । यथा पुण्यमुपन्यासं निबोधत ( मनु० अ० ९ को० ३१)
इत्यादौ । ४ विश्वासेनान्यसमीपे द्रव्यन्यासः ( उपनिधिः ) इति व्यव-
हारज्ञा आहुः
-
उपपत्तिः – १ ज्ञानम् । यथा समानानेकधर्मोपपत्तेः ( गौ० १११ २३ )
इत्यादौ ज्ञानम् ( गौ० वृ० १ । १ । २३ ) । यथा वा अविज्ञाततत्त्वेर्ये
कारणोपपत्तितः ( गौ० ११११४० ) इत्यादाबारोपात्मकं ज्ञानम् ।
२ साधकप्रमाणोपन्या सरूपा युक्तिः ( वै० सा० द० ) । यथा श्रोतव्यः
श्रुतिवाक्येभ्यो मन्तव्यञ्चोपपत्तिभिरित्यादौ । ३ संगतिः । यथा उपपत्ति-
मदूर्जिताश्रयं वचनम् ( किरा० स० २ को० १ ) इत्यादौ । ४ हेतुः
५ उपायः ६ प्राप्तिः ७ सिद्धिः इति काव्यशा वदन्ति ( वाच० ) ।