This page has not been fully proofread.

न्यायकोशः ।
 
उपभिः -- १ अन्यथा स्थितस्य वस्तुनः अन्यथाप्रकाशनरूपो व्यापारः ।
यथा योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाप्युपछि पश्येत्तत्सर्वे
विनिषर्तयेत् ॥ ( मनु० अ० ८ श्लो० १६५) इत्यादौ । २ छलमिति
काव्यक्षा वदन्ति ( वाच० ) ।
 
उपधेयः -१ यत्किंचिद्धर्मविशिष्टो धर्मी । यथा उपधेयसंकरेप्युपाभ्यसंकरा-
दिल्यादौ । अत्रेदमुदाह्वियते । बायुर्गन्धवान् स्नेहादित्यादावुपधेयस्य दोषा-
श्रयस्य धर्मिण: जेहादेर्हेतोः संकरेपि (ऐक्येपि ) उपाधीनां व्यमिचार-
विरोधादिरूपदोषात्मकधर्माणामसांकर्यात् ( मेदेन प्रतीयमानत्वात् )
स्नेहादौ पृथक् तत्तद्दोषव्यवहार उपपद्यत इति । एवमन्यत्राप्यूह्यम् ।
२ मन्त्रविशेषेण स्थापनीय इष्टकादिरिति याज्ञिका आहुः ( वाच० ) ।
 
उपनयः -- १ ( न्यायावयवः ) [क] उदाहरणापेक्षस्त थेत्युपसंहारो न तथेति
वा साध्यस्योपन्य: ( गौ० ११११३८ ) । साभ्यस्य पक्षस्योदाहरणापेक्ष
उदाहरणानुसारी य उपसंहार उपन्यासः स इत्यर्थः ( गौ० १०
१ । १ । ३८ ) । उदाहरणानन्तरं भवतु व्याप्तिस्तथापि व्याप्तं किं पक्षे
बर्तते न वा इत्याकायां व्यासस्य पक्षधर्मत्व प्रदर्शनायोपनयः । पक्ष-
धर्मताज्ञानमुपनयस्य प्रयोजनम् (सं० ० २ पृ० २२ ) । उदा-
हरणान्त एव प्रयोग इति न बाच्यम् । तृतीयलिनुपरामर्शस्य व्यातिपक्ष-
धर्मतावगाहिनोषयवान्तरादलाभात् । उपनयानम्युपगमे पक्षधर्मताया अ
लाभात् ( चि० २ १० ८१ ) । लक्षणं तूपनयत्वमेव । तच्च अनुमिति-
कारणतृतीयलिङ्गपरामर्शजनकावयवत्वम् ( चि० २ अव० पृ० ८१ ) {
इतरोपस्थापितार्थविशेषणकस्वार्थबोधजनकन्यायावयवत्वं वा । उपनयायें
इति बोध्यम् ।
 
विशेष्ये निगमनार्थस्य विशेषणत्वेनान्वयालक्षणसमन्वय
एवमुत्तरत्रापि ज्ञेयम् । अथवा स्वार्थविशेष्यकेतरार्यान्वयबोधजनकन्याया-
वयवत्वम् ( दीधि० २ पृ० १७७ - १७८) । यद्वा वहिव्याप्यघूम-
बानयमिति शब्दवृत्त्यषयववि माजकोपाधिमत्वम् ( न्या० म० २ १०
२४ )। [ ख ] प्रकृतोदाहरणोपदर्शितव्याप्तिविशिष्टहेतुविशिष्टपक्षबोध-
जनको न्यायावयषः ( गौ० १० ११ १२ १३८ ) । [ग] पक्ष व्याप्त
 
२१ म्या० को●