This page has not been fully proofread.

पत्त्यनुकूलव्यापारः । यथा शिष्यं धर्म बदति बक्ति ब्रूते उपदिशति
आचष्टे इत्यादौ बदप्रभृतिधात्वर्थः । अत्र धात्वर्थघटकप्रतिपचौ शिष्यस्या-
धेयत्वेन धर्मस्य च विषयत्वेनान्वयात् धर्मविषयिणी या शिष्यनिष्ठा
प्रतिपत्तिस्तदनुकूळव्यापारवान् इत्याकारको बोधः । अत्र तादृशव्यापारो
धर्मः सेव्यताम् इत्यादिको गुर्वाधभिलापः ( श० प्र० १० ९८ ) ।
३ अनुशासनम् । यथा आर्षे धर्मोपदेशं च वेदशाखाविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः ॥ ( मनु० अ० १२ को० २०६ )
इत्यादौ । ४ हितकथनं ५ प्रवर्तकबाक्यं वा । यथा धर्मोपदेशं दर्पेण
विप्राणामस्य कुर्वतः ( मनु० अ० ८ लो० २७२) इत्यादौ । ६
शिष्याय सविधानं मन्त्रकथनमुपदेश इति मानिकाः । ७ दीक्षाभेद इति
तान्त्रिका: ( वाच० ) । ८ आयोचारणमुपदेश इति शाब्दिका बदन्ति ।
तदुक्तम् धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रव्यमादेशा
उपदेशाः प्रकीर्तिताः ॥ इति । ९ यत्रापेक्षितस्यार्थजातस्य प्रतिपादको
ग्रन्थसंदर्भः पठ्यते स उपदेश इति मीमांसका: ( जै० न्या० अ०७
पा० १ अधि० १) ।
 
उपधा - १ कामक्रोधादयो भावदोषाः । एते अधर्मजनका: ( त० ब०) ।
२ धर्मार्थकामायुपन्यासेनामात्यपरीक्षणम् । यथा चिन्ताबन्तः कथ
चक्रुरुपधामेदमीरवः (भट्टिः ) इत्यादौ इति नीतिशास्त्रज्ञाः । ३ छलम् ।
यथा उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः ( मनु० अ० ८ को ०
१९३) इत्यादौ इति व्यवहारज्ञाः । ४ बलोन्त्यात्पूर्व उपधा ( पा०
सू० ११ १/६५) इति शाब्दिका वदन्ति ( बाच० ) । ५ परवञ्च-
नेच्छा ( प्रशस्त० गु० कामनि० पृ० ३३ ) ।
 
उपधानम् – १ उपधायकत्वषदस्यार्थोनुसंधेयः । २ व्रतविशेष इति धर्मशाः ।
३ विशेष: ४ प्रणयच इति काव्यज्ञा आहुः ( वाच० ) ।
 
उपधायकत्वम् – १ ( कारणत्वम्) अव्यवहितपूर्ववृत्तित्वसंबन्धेन फळवि-
शिष्टत्वम् । यथा परामर्शस्यानुमित्यात्मक फलोपधायकत्वम् । यथा वा
विशेषणकास्य विशिध्यानात्मकफकोपभायकम् ।