This page has not been fully proofread.

स्पर्शेषु चतुर्षु वर्तते इति बहूनां मतम् । यथा उद्भूतरूपं नयनस्य गोचरः
( मा०प० ० ५४ ) उद्भूतस्पर्शबद्रव्यं गोचरः सोपि च त्वचः
(भा०प० श्लो० ५६) इत्यादौ नीलत्वादिव्याप्यानुद्भूतत्वामाबकूटवस्वम् ।
[ख] प्रत्यक्षयोम्यरूपरसगन्धस्पर्शसंयोगाद्यन्यतमत्वम् । [ग] उद्भूतत्वं
जातिस्तदभावोनुद्भूतत्वमिति जरनैयायिकाः । तदयुक्तम् । यथाहि
अनुद्भूतत्वं जातिर्न मवति शुद्धत्वादिना संकरात् । एवमुद्भूतत्वमपि
जातिर्न भवतीति विज्ञेयम् ( सि० च० ११० ४ ) । अत्र नव्याः
उद्भूतत्वं जातिः । न च शुत्वादिना सांकर्यम् । गुणसांकर्यै न बाधक-
मित्याडु: ( नी० १ पृ० १३ ) । [घ ] अनुद्भूतत्वं जाति-
स्तदभाव उद्भूतत्वमिति गोपाध्यायः (सि० च० १ पृ० ४-५) ।
केचित्त शुत्वादिव्याप्यमनुद्भूतत्वं नाना । तसदभावकूटबत्त्वमेवोद्भूतत्व-
मित्याहु: ( नील० ११० १३ ) ।
 
उद्वापः -- १ श्रूयमाणपदपरित्यागः पश्चात् । यथा घटं नय गामानय
इत्यादिषाक्यादाबावापोद्वापाभ्यामित्यादौ ( मुक्ता ० ४ पृ० १७६ ) ।
२ उद्धरणम् ( वाच० ) ।
 
-
 
उद्वृषमयशः - ज्येष्ठमासे पौर्णमास्यां बलीवर्दानम्यर्च्य धावयन्तीत्याचारः ।
सोयमुद्रुषमयज्ञः ( जैमि० न्या० अ० १०३ अधि०८) ।
उन्नयनम् – १ अनुमानम् । २ वितर्कः । ३ यज्ञीयः पूतमृदाख्यः पात्र-
विशेष इति याज्ञिका आहुः । ४ ऊर्ध्वप्रापणमिति काव्यज्ञाः (वाच ० ) ।
५ संस्कारविशेष इति मौहूर्तिकाः ।
 
उन्नायकत्वम्-ज्ञापकत्वम् । अत्र ज्ञापकत्वं जनकज्ञानविषयत्वम् । यथा
पर्वते घूमेन बहिसाधने बहिमपर्वतोनायकत्वं वहिव्याप्यवत्पर्वतस्य ।
उन्नेयत्वम् – ज्ञाप्यत्वम् । अत्र ज्ञाप्यत्वं जन्यज्ञानदिषयत्वमिति बोध्यम् ।
यथा पर्वते घूमेन बहिसाधने वहिव्याप्यवत्पर्वतोन्नयत्वं वह्निमत्पर्वतस्य ।
उम्मच: उन्मादेन पञ्चविधेन बातपित्त श्लेष्मसंनिपातग्रहसंभवेनोपसृष्टः
( मिताक्षरा अ० २ लो० ३२ ) ।
 
-
 
उपकार: - [ क ] सहकारिलाभः । यथा घटायुत्पत्तौ दण्डाद्युपकारः ।