This page has not been fully proofread.

२ पृ० १६८) इत्यादौ । यथा वा वैयाकरणमते विप्राय गां
ददातीत्यादौ विप्रे गोस्वामित्वभागितयेच्छाविषयत्वमुद्देश्यत्वम् ( ३०
सा० द० सु० पृ० १९४ ) । [घ ] प्रकृतत्वम् ( दीषि० २ पृ०
१६७ ) । यथा उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकेत्यादौ (चि० २
प्रतिज्ञाप्रन्थ ० ) । [ ङ ] शाब्दिकाच यच्छन्दप्रतिपाद्यत्वे सति
सिद्धत्वेन प्रतीयमानत्वे सत्यनुवाद्यत्वमुद्देश्यत्वमिति वदन्ति । [ च ]
मानान्तरप्राप्तत्वे सति विधेयान्वयित्वेन निवेश्यत्वमिति मीमांसकाः । [छ ]
मानसापेक्षो विषयत्वाकार उद्देश्यत्वम् ( जै० न्या० अ० १ पा० ४
अघि० ६) ।
 
-
 

 
उद्घोषकत्वम् – स्मृतिप्रयोजकत्वम् । यथा प्रणिधान निबन्धादीनामुद्बोधक-
त्वम् ( गौ० ३।२।४२ ) । उद्बोधकानि च प्रणिधानादीनि स्मृतिजनकस्य
संस्कारस्य सहकारीणि भवन्ति । अत्रेदं बोभ्यम् । उद्बुद्ध एव संस्कारः
स्मृतिं जनयति । तत्रोद्बोधश्च सहकारिलाभः ( त० मा० पृ० ३७) ।
स्मृतिजननाय संस्कारोद्दीपनम् ( वाच० ) । स्मृतिप्रयोजकत्वं च कारण-
कारणतावच्छेदकसाधारणं ज्ञेयम् । तेन प्रणिधानादिषु कस्यचित्स्वरूप-
सतः कस्यचिवातस्यापि स्मारकत्वेपि नासंग्रहः । उद्बोधने च एक-
संबन्धिज्ञानमपरसंबन्धिस्मारकम् इति प्रायिको नियमो द्रष्टव्यः ।
उद्भवः -१ [ क ] बाचैकैकेन्द्रियग्रहणयोग्य गुणत्वात्मक उपाधिः । स च
रूपादिविशेषगुणगतो जातिविशेष एव रूपत्वादिष्याप्यः । अयं च
रूपप्रत्यक्ष प्रयोजक इति ज्ञेयम् (वै० उ० ४१११८ ) । [ख]
उद्भूतत्ववदस्यार्थोनुसंधेयः । [ग] अनुद्भवाभाव एवोद्भव इति केचित्
(वै० उ० ४।११८) । २ उत्पत्तिः ( मिता० अ० ३ ० ३९ ) ।
यथा विष्णुपादोद्भवा गङ्गा इत्यत्र स्थैर्य चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः
( याज्ञ० स्पृ० अ० ३ को० ८० ) इत्यादौ च ( वाच० ) ।
उतलम् -[क] प्रत्यक्षत्वप्रयोजको धर्मविशेषः ( त० दी० १५०
१३) । स च रूपत्वव्याप्यजातिमत्वम् ( चि० १) । इयं जातिव
घटादिगतशुकादिवृचिरिति विज्ञेयम् । उद्भुतत्वं केचित् रूपरसगन्ध-