2023-02-20 00:54:32 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
उदाहरणाभासः –निदर्शनाभासशब्दबदस्यार्थोनुसंधेयः ।
उदीची - (दिक् ) [क] प्राच्यभिमुखपुरुषवामप्रदेशावच्छिन्ना दिगुदीची
(वै० उ० २।२।१०) (३० २१२ १५ ) । अत्र वामत्वं तु शरीरा-
वयववृत्तिजातिविशेष: (बै० उ० २१ २११० ) । [ ख ] मेरुसंनिहित-
देशाषच्छिन्ना दिक् ( वाक्य० १ पृ० ५ ) ( न्या० बो० १ पृ० ३ ) ।
यथा झळकीप्रामादुदीच्यां सोलापुरप्रामः ।
-
उद्देश: – १ [क] नामधेयेन पदार्थमात्रस्याभिधानम् ( वात्स्या ० १ । १ । २)
( स० भा० पृ० १ ) ( त० दी० १ पृ० ७ ) । यथा प्रमाणप्रमेय-
संशयप्रयोजनदृष्टान्तसिद्धान्त ( गौ० १ । १ । १ ) इत्याद्यभिधानम् (त०
भा० १० १ ) । यथा वा पृथिवीजलतेजस्वायुआकाशकालदिश्-
आत्ममनांसि इत्याद्यभिधानम्। [ख] वस्तुप्रतिपादकनाममात्रम् (नील०
१ पृ० ७) । [ग] लक्ष्यताबच्छेदकमात्रेण लक्ष्यसंकीर्तनम् ( त०
कौ० ० पृ० २१ ) । यथा द्रव्यं गुणः कर्मेत्यादिकथनम्। [घ ] संज्ञा-
मात्रेण पदार्थानामभिधानम् । २ इच्छाविशेषः । ३ शाब्दिकास्तु'
उपदेशदेशः । तत्र देशवोच्चारणकालः । यथा यथोदेशं संज्ञापरिभाषम्
इत्यादावित्याहुः । ४ समासकथनमुद्देश इति सुश्रुतोक्तस्तन्द्राधिकरणभेदः ।
५ काव्यशास्तु उत्कृष्टप्रदेश: ६ संक्षेपश्चोदेशशब्दार्ग इत्याहुः (वाच० ) ।
उद्देश्यत्वम् – [ क ] विषयताविशेषः । यथा पर्वतो बद्धिमान् इत्यनुमितौ
पर्वतस्योद्देश्यत्वम् । विषयताविशेषश्चानुमितौ शाब्दबोधे च योजनीयः ।
प्रवृत्तौ तूदेश्यत्वं खजनकेच्छाविषयत्वम् । यथा स्वर्गकामो यजेतेत्यादि-
वाक्यजनितेष्टसाधनताज्ञानतः स्वर्गफलोदेशेनैव यागे प्रवृत्तिः इति स्वर्गस्य
तत्रोद्देश्यता ( वाच० ) । अत्रेदं बोध्यम् । यमुद्दिश्य विधेयप्रवृत्तिः तदुद्दे-
श्यमनुवाद्यम् । उद्देश्यविधेयभावस्थलेयं नियमः उद्देश्यवाचकपदस्य
विधेयवाचकपदात्प्राक् प्रयोगः कर्तव्यः इति । तत्रोक्तम् अनुवाद्यमनु-
क्त्वैव न विधेयमुदीरयेत् इति ( वाच० ) । यथा पर्वतो वहिमानित्यत्र
पर्वतः । [ ख ] इच्छाविशेष्यत्वमिति केचित् ( न्या० र० ) । [ग]
इच्छाविषयत्वम् । यथा पर्वतत्वावच्छेदेन साध्यसिद्धेरुदेश्यतायाम् (दीधि ०