This page has not been fully proofread.

१५३
 
उत्पादः -[ क ] स्वाधिकरणसमयध्वंसान धिकरणसमयसंबन्धः । [ ]
तत्वत्सम्यवृत्तिध्वंस प्रतियोगिसमयावृत्तित्वे सति तत्तत्समयसंवन्धः । यथा
धर्मादुत्पते सुखम् दण्डाबायते घट इत्यादी धातोरर्थः । अत्र तादृश-
संबन्धरूपधात्वर्थनिष्ठं जन्यत्वं पञ्चम्यर्थः । तथा च धर्मजन्यो वः खाषि-
करणसमयध्वंसानधिकरणसमयसंबन्धस्तद्वत्सुखम् इत्याकारको बोधः ।
वृत्तिकृतस्तु उत्पद्यत इत्यादौ प्रागभावप्रतियोगित्वरूपमेवोत्पत्तिमत्वं
धात्वर्ष इत्याहुः ( श० प्र० कार० पृ० ८१ ) ।
 
उत्पाद्यम् - १ कार्यवदस्यार्थोनुसंधेयः । २ निर्वयं इब्याख्यः कर्मविशेषः ।
इदं व प्रकृतिकर्मासमभिव्याहारे संपयते । प्रकृतिकर्म समभिव्याहारे तु
विकार्यम् इत्युच्यत इति विवेकः । शिष्टं तु निर्वर्त्य विकार्य इत्यादिशब्द-
व्याख्याने दृश्यम् ( म० व्यु० का० २ पृ० ६५ ) ।
 
उत्सर्गः ––१ उत्सर्जनबदस्यार्थीनुसंधेयः । २ सामान्यशास्त्रमिति मीमांस-
कादयो वदन्ति । तलक्षणं तु बलवद्वाषकापोद्यत्वम् । अत्रायं नियमः
व्अपवादाभावे उत्सर्गप्रवृत्तिः इति । यथा न हिंस्यात्सर्वा भूतानीति
शास्त्रमुत्सर्गः । अस्य यागीयहिंसायां न प्रवृत्तिः । तत्र पशुमालमेत
इत्यपवादसत्वात् ।
 
उत्सर्गसमितिः –कफमूत्रमलप्रायैर्निर्जन्तुजगतीतले । यत्नाद्यदुत्सृजेम्साधुः
सोत्सर्गसमितिर्भवेत् ॥ ( सर्व० सं० पृ० ७९ आई० ) ।
 
उत्सर्जनम् – १ [ क ] स्वानुयोगिकप्राप्तवस्तुप्रतियोगिकसंबन्धविरहेच्छा ।
यथा उत्सृजति धनं देवदत्त इत्यादौ धात्वर्थः । अत्र स्वपदार्थस्तु
उत्सर्जनकर्ता देवदत्तादिः । [ ख ] त्यागः । २ कर्मविशेष इति
श्रोत्रिया वदन्ति ।
 
उदानः – ( वायुः ) [ क ] अनादेखर्ध्वनयनादुदानः (सि० च० १
५० ८) (दि० ११२ १० ८५) । अत्रोक्कस् स्पन्दयस्परं वक्रं
गात्रनेत्र प्रकोपनः । उद्वेजयति मर्माणि उदानो नाम मारुतः ॥
विद्युत्पावकषर्णः स्यादुत्थानासनकारकः । पादयोईस्तयोथापि सर्वसभिषु
 
को●