This page has not been fully proofread.

यो ।
 
ध्वंसप्रतियोगिकाढावृत्तित्वविशिष्टस्ववृत्तित्वम् । इदं च महाप्रलये क्षण-
व्यवहारानङ्गीकारेपि महाप्रलयस्योत्पत्तिः संपद्यत इयमिप्रायेणोक्तमिति
विज्ञेयम् ( दि० ११० ९३ ) । [ ] तदधिकरणक्षणावृतित्व-
व्याप्यस्व वृत्तिध्वंसप्रतियोगिताकसमयवृत्तित्वम् । तत्पदमुत्पत्स्यमानपदार्थप
रम् । तथा च यदधिकरणक्षणावृत्तित्वस्य व्याप्या यत्समयवृत्तिष्वंस-
प्रतियोगिता तस्य तत्समयवृत्तित्वम् इति ( राम० १/१ / ९२ ) । इदं
च महाप्रलयस्यापि क्षणत्वं वर्तते इत्यभिप्रायेणोक्त मिति विज्ञेयम् ( दिन०
१ पृ० ९२ ) । [च ] यत्समयवृत्तिध्वंसप्रतियोगिताव्यापकं तत्कार्या-
विकरणक्षणवृत्तित्वं तत्समयवृत्तित्वमिति केचित् ( दि० ) । साद्विविधा ।
खत उत्पत्तिः परत उत्पत्तिश्च । तत्राद्या यथा मीमांसकनये स्वतः
प्रमात्वस्योत्पत्तिः । द्वितीया यथा घटादीनामुत्पत्तिः । सकलकारणयोग-
पद्यमुत्पत्तिरिति केचित् । आत्मन उत्पत्तिस्तु देहसंगतिः ( ता० र०
लो० २१ ) ।
 
उत्पत्तिकालावच्छिणत्वम् – स्वाधिकरणसमयध्वंसवदन्यकाळसंबन्धः (ग०
पक्ष० पृ० ३९ ) । यथा यदा यो घट उत्पद्यते तदा तस्य घटस्प
तत्कालावच्छिन्नत्वम् । यथा वा द्वितीयक्षणपर्यन्तावस्थायिनोपि ज्ञाना--
देख्पत्तिकालावच्छिनत्वम् । अथ वा तत्तदधिकरणसमयध्वंसाधिकरण-
समयसंबन्धानामभावकूटविशिष्टत्वम् ( ग० २१० पृ० ४१ ) ।
उत्पविविधिः- ( विधि: ) कर्मस्वरूपमात्रबोधको विधिरुत्पतिविधिः
( मी० न्या० पृ० ९ ) । तत्स्वरूपं द्विविधम् । द्रव्यं देवता चेति ।
यथा दर्शपूर्णमासे आग्नेयोटाकपालो भवति इत्यादि । ज्योतिष्टोमे सोमेन
यजेत इति । कचित् अग्रिहोत्रं जुहोतीत्यादी रूपाश्रवणेप्युत्पत्ति-
विधित्वमस्त्येव ( म० प्र० ४ पृ० ६२ ) ।
 
उत्पातः - शुभाशुभसूचको भूतविकारः । यथा वाताय कपिला विद्युदि
ज्यादौ । अत्र ज्ञाप्यज्ञापकभावश्चतुर्थ्यर्थः । तथा च बातरूपज्ञाप्पज्ञापिका
कपिष्म विद्युत् इति बोध: ( ख० म०० का० ४ १० १०५) ।