This page has not been fully proofread.

न्यायकोचः ।
 
वक्तम्पतया मणिविशेषान्तरस्योत्तेजकत्वमुपपद्यत इति । २ प्रेरकत्वमिति
काव्यवाः । ३ उदीपकत्वं वर्धकरवं वेत्याधुनिका लौकिकजना बदन्ति ।
उत्थाप्याकाङ्क्षा ~~ (आकाङ्क्षा) अनियताकाङ्क्षा ( राम० ११० २) ।
यथा उदयति चन्द्रः कुमुदबान्धव इत्यादौ चन्द्रपदकुमुदबान्धवपदयोर-
नियताकाङ्क्षा । भन्न समाप्तपुनरातत्वाख्यः काव्यदोषोस्तीति बोध्यम् ।
उत्थिताकाङ्क्षा (आकाङ्क्षा) नियताकाङ्क्षा । यथा क्रियाकारकपदानां
परस्पराकाङ्क्षा । यथा वा पुत्रादिपदानां पित्रादिरूप प्रतियोगिबाचकपदा-
काङ्क्षत नियता ( राम० १ पृ० २) । नियतत्वं चात्रावश्यंभावित्वम् ।
मत्रच पुत्र इत्युक्ते कस्येत्याकाहोदयादेवदत्तस्येत्यायपेक्ष्यत इति देवदर
स्पेति षछ्यन्तपदपुत्रपदयोर्नियताकाङ्केति ज्ञेयम् ।
 
उत्पतिः अत्र बहवो विप्रतिपद्यन्ते । असतः सदुत्पद्यते इति बौद्धाः ।
प्रागुत्पतेरसत् कारणव्यापारादुत्पद्यते इति नैयायिकाः । सत एव कार-
णात् असतः कार्यस्य कारणव्यापारात् उत्पत्तिरित्यर्थः । उत्पत्तेः प्रागसत्
उत्पत्तिकाले च सदिति तद्भाव: । प्रागुत्पत्तेः सदपि कारणव्यापारादमि-
व्यज्यते इति सांख्याः मायावादिवेदान्तिनश्च प्रतिपेदिरे । यथा पीडनेन
तिलेषु तैलस्य अवधातेन धाम्येषु तण्डुलानाम् दोहनेन सौरमेयीडु
पयसः अभिव्यक्तिः तद्वत् । तत्र सतो निवर्त इति मायावादिनां
मतम् । परिणाम इति सांख्यानां मतम् (वाच० ) । उत्पतिशब्दार्थस्तु
आयक्षणसंबन्धः । स च [ क ] स्वाधिकरणक्षणावृत्तिप्रागभावप्रति-
योगिक्षणसंबन्धः ( आत्मत व्या० शिरोम० ) ( वाच० ) ( म०
प्र० १ पृ० १२) ( स० प्र० १ ) । [ख] स्वाधिकरणक्षणध्वंसान-
धिकरणक्षणसंबन्धो वा ( म० प्र० १ पृ० १२ ) ( त० प्र० १ ) ।
यथा उत्पत्तिमानभावो ध्वंस इत्यादावुत्पत्तिः । यथा वा घटपटावे-
इत्पत्तिः । स्वम् उत्पद्यमानत्वेनाभिमतं घटादि ( म० प्र० १ पृ० १२ ) ।
क्षणध स्वजन्यविभागप्रागमावावच्छिनं कर्म । अत्र स्वम् उत्पद्यमानं
कर्म ( म० प्र० पृ० १२) । [ग] यो यत्कालवृत्तिध्वंसयोग्यवृत्ति-
स्तस्य सहुतित्वमुत्पत्तिरियपि केचित् (०२) । [६] इति