This page has not been fully proofread.

न्यायकोचः ।
 
वाक्यम् । यथा कोसि इति पृष्ठे देवदत्तोहमस्मि इति वचनम् ।
तत्रोक्तम् प्रश्नचोद्यधिया पृच्छा तस्य स्खण्डनमुत्तरम् इति ( वाच ० ) ।
जिज्ञासितविषयावेदकं वाक्यमुत्तरमिति केचित् (वाच०) । शाब्दिकास्तु
यद्धर्मावच्छिन्ने यद्धर्मावच्छिन्नस्य संबन्धो यत्प्रश्नवाक्यात्प्रतीयते तदर्मा-
वच्छिन्ने जिशासिततद्धर्मावच्छिन्नसंबन्धबोधकवाक्यम् । यदाडु: जिशासि-
सपदार्थस्य संसर्गो येन गम्यते । तदुचरमिति प्रोक्तमन्यदाभासशब्दि-
तम् ॥ इति । यथा कस्माइटः इति प्रश्नस्म दण्डाइटः इत्युत्तरम् ।
अत्र घटत्वावच्छिन्ने जिशासितधर्मावच्छिासंबन्धबोधकस्य कस्माइटः
इति प्रभवाक्यस्य घटत्वावच्छिन्ने जिज्ञासितदण्डत्वावच्छिन्नस्म हेतुहेतु-
मद्राबबोधकं दण्डाद्धटः इति वाक्यमुत्तरम् (बै० सा० ६० पृ०
८७) इति वदन्ति । ३ सिद्धान्तानुकूलतर्कोपन्यासरूपोधिकरणविशेष
इति मीमांसका वेदान्तिनबाडुः । ४ राजसमीपे वादिकृताभियोगापनोद-
कमुत्तराख्यं व्यवहाराङ्गमिति व्यवहारज्ञाः । पक्षस्य व्यापकं सारमसंदि-
धमनाकुलम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥ ( मिता-
क्षरा अ० २ लो० ७) । ५ नक्षत्रविशेष इति ज्योतिर्विद आहुः ।
 
उच्चरमीमांसा – ( दर्शनम् ) उत्तरस्य वेदशेषभागस्योपनिषदूपस्य मीमांसा
पञ्चाङ्गन्यायोपेतवाक्यसमुदायात्मको विचारः । यथा अथातो ब्रह्म-
जिवासा ( ब्र० सू० १/१/१ ) इत्यारम्य अनावृत्तिः शब्दात् ( म०
सू० ४।४।२३) इत्येतावान् अभ्यायचतुष्टयात्मको सत्यवतीसुतव्यास-
कतो ब्रह्मविचारः ( वाच० ) ।
 
उत्तीर्णता– १ निश्चयः (ग० सय ० ) । यथा असाधारण्योतीर्णतादशाया-
मिमादौ । २ नद्यादेः पारगमनकर्मत्वमुत्तीर्णत्वमिति काव्यका बदन्ति ।
उतेजकत्वम् – १ प्रतिबन्धककोटिप्रविष्ठाभावप्रतियोगित्वम् । यथा दाहं
प्रति मणिविशेषस्योत्तेजकत्वम् । अत्र च दाई प्रति मणिविशेषत्व प्रति-
बन्धकत्वं लोकसिद्धम् । परंतु मणिविशेषान्तरस्य च समवधाने दाहो-
स्परमा मणिविशेषान्तराभावविशिष्टमणिविशेषस्यैव प्रतिबन्ध