This page has not been fully proofread.

I
 
पृ० १८ ) । द्वितीयः अलौकिक: सैनिकर्षच त्रिविधः । सामान्य-
लक्षण: ज्ञानलक्षणः योगजधर्मश्चेति ( मा०प० १ लो० ६३-६५ )
( मु० १ पृ० ११९-१२२ ) । स चालौकिकप्रत्यक्ष कारणम् ।
एतत्रितयसंनिकर्षः षडिन्द्रियसहकारीति संप्रदायविदः । मनस एव
सहकारीति शूलपाणिमिश्रा: ( त० कौ० १५० ९) इत्युक्तमेव ।
इष्टत्वम् – [ क ] इच्छाविषयत्वम् । यथा इष्टदेवतानमस्कारलक्षणं मङ्गलं
शिष्यशिक्षार्थ निबनन् ( त० दी० पृ० १ ) इत्यादाविष्ठत्वम् । [ ख ]
सममिव्याहृतपदोपस्थापितकामनाविषयत्वम् । यथा ओदनकामः पन्चेत
स्वर्गकामो यजेतेत्यादावोदनस्वर्गरूपफलयोरिष्टत्वम् ( ग० व्यु० ल०
पृ० १३९ ) ।
 
ई.
 
ईर्ष्या – ( समितिः ) लोकातिवाहिते मार्गे चुम्बिते मास्वदंशुभिः । जन्तुरक्षा-
र्थमालोक्य गतिरीर्या मता सताम् ॥ ( सर्व० सं० १० ७९ आई० )।
 
ईर्ष्या – ( दोषः ) १ अक्षान्तिः । सा च परोत्कर्षासहिष्णुता । यथा शत्रण
ईर्ष्यतीत्यादौ धात्वर्थः
(ग० व्यु० का० ४ पृ० ९६ ) । अथवा
साधारणे वस्तुनि परस्वत्वात्तद्ब्रहीतरि द्वेषः । यथा दुरन्तदायादानामी
(गौ० वृ० ४।१।३ ) । शाब्दिकास्तु उत्कर्षविरोधिधर्मारोपानुकू-
लब्यापारजनकश्चित्तवृत्तिविशेषः । यथा हरये ईर्ष्यतीव्यादी इत्याहुः
( ल० म० सुब० का० १० १०३ ) । ईर्ष्या व कोपमूलिका ।
तत्रोक्तम् पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । बान्दण्डजं व
पारुष्यं कोषजोपि गणोष्टकः ॥ ( मनु० ७१४८ ) इति । परोत्कर्ष-
गोचरो द्वेष इति परमार्थ तथा च तादृशद्वेषविषयस्य परस्य
क्रुषहेर्पासूयार्थानां यं प्रति कोपः ( पा० सू० ११४ । ३७ ) इत्यनेन
संप्रदानता (ग० न्यु० का० ४ पृ० ९६ ) । २ अनिधनुपेक्षणम् ।
यथा शिष्यायेर्ष्यतीत्यत्र धात्वर्थः । मन्त्र शिष्यानिटं नोपेक्षत इति
वाक्यार्थः ( स० प्र० १० ८७ ) ।