2023-02-20 00:54:30 by ambuda-bot
This page has not been fully proofread.
समवायस्य अर्थ शब्दाभाववान् इति शब्दाभावस्य च ग्रहः । तत्र
श्रोत्रेन्द्रिये शब्दसमवायस्य शब्दाभावस्य च विशेषणत्वादिति भावः
( न्या० म० १ पृ० ८) ( स० कौ० १ पृ० ९) । अभावस्य
स्वोपरक्तबुद्धिजनकत्वं यत्स्वरूपं तदेव विशेषणत्वम् न तु तदर्थान्तरम्
इति विज्ञेयम् (त० मा० पृ० २० ) । इन्द्रियसंबद्धविशेषणतया तु
इदं कपालं घटसमवायबत् इति घटादिसमवायस्य इदं भूतलं घटाभाग-
बत् इति घटाभावस्य च ग्रहः ( त०. कौ० १ पृ० ९ ) ( न्या० म०
पृ० ८ ) । तत्र चक्षुरादिसंयुक्त कपाले घटसमवायस्य चक्षुरादिसंबद्धे
भूतले घटाभावस्य च विशेषणत्वादिति भावः ( न्या० म० १५० ८ )
( त० कौ० १ पृ० ९ ) । अत्र इन्द्रियसंनिकर्षस्य संयोगादेर्बहुविधस्य
प्रवेशासादृश विशेषणतापि बहुविधा । तद्यथा इन्द्रियसंयुक्तविशेषणता
इन्द्रियसंयुक्तसमवेतविशेषणता इन्द्रियसंयुक्तसमवेत समवेतविशेषणता
इन्द्रियसमवेतविशेषणता इन्द्रियसमवेतसमवेतविशेषणता इन्द्रियविशेषण-
विशेषणतेत्यादिः । तत्र आद्यया इन्द्रियसंयुक्तविशेषणतया भूतले घटा-
भावग्रहः । द्वितीयया घटरूपादौ रसत्वाभावग्रहः । तृतीयया रूपत्वादौ
रसत्वाभावग्रहः । चतुर्थ्या श्रोत्रसमवेते ककारे खत्वाभावग्रहः । पञ्चम्या
कत्वे खत्वाभावग्रहः । षष्ठ्या श्रोत्रे विशेषणीभूतककाराभावे स्वत्वाभाव-
ग्रहः इति बोध्यम् ( म०प्र० १ पृ० १० ११ ) । एवं विशेष्यतापि
द्विविधा । इन्द्रियविशेष्यता इन्द्रियसंबद्धविशेष्यता च । तत्रेन्द्रियविशेष्य-
तया इE शब्दसमवायोस्ति इति शब्दसमवायस्य इह शब्दो नास्ति इति
शब्दाभावस्य च ग्रहः । तत्र श्रोत्रेन्द्रिये शब्दसमवायस्य शब्दाभावस्य च
विशेष्यत्वादिति भावः । इन्द्रियसंबद्धविशेष्यतया तु इह कपाले घट-
समवायोस्ति इति घटादिसमवायस्य इह भूतले घटो नास्ति इति घटा-
भावस्य च ग्रहो भवतीति । तत्र चक्षुरादिसंयुक्ते कपाले घटसमवायस्थ
तादृशे चक्षुरादिसंयुक्ते च भूतले घटाभावस्य च विशेष्यत्वादित्यवधेयम् ।
तत्र षड़िधसैनिकर्षमध्ये विशेषणविशेष्यभावो न विषयतारूपः । अभि
तु स्वरूपसंबन्धावच्छिन्नाधाराधेयभाव एवेति विशेषम् (नीख० १
१९ न्या० को•