2023-02-20 00:54:30 by ambuda-bot
This page has not been fully proofread.
इह भूतले घटो नास्ति इति भावप्रत्यक्षे च विशेषणविशेष्यभावः
( विशेषणता विशेष्यता च ) इति ( त० सं ) ( त० भा० पू० ६-८)
( सि० च० पृ० २२) । तथाहि । यदा चक्षुःसंयुक्ते भूतले घटायभावो
गृझते इह भूतले घटो नास्ति इति तदा चक्षुःसंयुक्तस्य भूतलस्य
घटायभावो विशेष्यम् । भूतलं विशेषणम् । अत्र चक्षुःसंयुक्तविशेष्यत्वं
संनिकर्षः । यदा मनःसंयुक्त आत्मनि सुखाद्यभावो गृह्यते अहं सुखा-
दिरहितः इति तदा मनःसंयुक्तस्यात्मनः सुखाद्यभावो विशेषणम् । अत्र
मनःसंयुक्तविशेषणत्वं संनिकर्षः । यदा च श्रोत्रसमवेते गकारे घत्वाभावो
गृह्यते गकारो धत्वाभाववान् इति तदा श्रोत्रसमवेतस्य गकारस्य धत्वा-
भावो विशेषणम् । अत्र श्रोत्रसमवेत विशेषणत्वं संनिकर्षो ज्ञेयः । तदेवं
संक्षेपतः पञ्चविधान्यतमसंबन्धसंबद्धविशेषणविशेष्यभाषलक्षणेनेन्द्रियार्थ-
संनिकर्षेणाभाव इन्द्रियेण गृह्यते । एवं समवायोपि चक्षुःसंबद्धस्य
तन्तोर्विशेषणभूतः पटसमबायो गृह्यते इह तन्तुषु पटसमवायः इति
( त० मा० १ पृ० ८) । तत्र विशेषणता नानाविधा । तथाहि भूत-
छादौ घटामाब: संयुक्तविशेषणतया गृह्यते । संख्यादौ रूपाद्यभावः
संयुक्तसमवेतविशेषणतया गृह्यते । संख्यात्यादौ रूपाद्यभाष: संयुक्त-
समवेतसमवेतविशेषणतया गृह्यते । शब्दाभावः केवल श्रोत्रावच्छिन्न-
विशेषणतया गृह्यते । कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेतविशेषण-
तया गृह्यते । एवं कत्वाद्यवच्छिन्नाभावे खत्वाभावादिकं श्रोत्रावच्छिन्न-
विशेषणविशेषणतया गृह्यते । घटाभावादी घटाभावश्चक्षुः संयुक्तविशेषण-
विशेषणतया गृह्यते इति । एवमन्यत्राप्यूयम् (मु० १ पृ० १२२ ) ।
एवं विशेष्यताया नानाविधत्वम् पूर्वोक्तं तदुदाहरणादिकं च द्रष्टव्यम् ।
अत्र समवायस्य प्रत्यक्षवर्णनं न्यायमतेन । वैशेषिकमते तु समवायो-
तीन्द्रिय एवेति ज्ञेयम् ( त० कौ० ११०९) (मु० १ पृ० १२२ ) ।
मजेदं बोध्यम् । विशेषणतया विशेष्यतया च समवायाभावयोग्रह
इत्युक्तम् । तत्र विशेषणता द्विविधा। इन्द्रियविशेषणता इन्द्रियसंबद्ध-
विशेषणता च । तत्रेन्द्रियविशेषणतया अयं शब्दसमवायवान् इति शब्द-