This page has not been fully proofread.

न्यायकोशः ।
 
१४
 
संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः
विशेषणविशेष्यभावश्चेति । तत्र चक्षुषा इह घटोस्ति इति घटोयम् इति
वा घटप्रत्यक्षजनने संयोगः संनिकर्ष उपयुज्यते । द्रव्यचाक्षुषस्पार्शन-
मानसेष्विन्द्रियसंयोग एव संनिकर्ष: ( न्या० म० १ पृ० ७) (सि०
च० १ पृ० २२) । चक्षुरादेर्घटादिना संयोगसत्त्वादिति भावः ।
एवं मनसा संयोगेनात्मग्रहः अहमस्मि इति ( त० कौ० ११० ८ ) ।
अत्रायं नियमः । आत्मा मनसा संयुज्यते । मन इन्द्रियेण । इन्द्रियमर्थेन
( विषयेण ) । ततः सैनिकृष्टेनेन्द्रियेण निर्विकल्पक प्रत्यक्षमुत्पद्यते ( त०
मा० १० ६ ) ( प्र० प्र० ) । घटे रूपादिकमस्ति इति घटरूपादि-
प्रत्यक्षजनने संयुक्तसमवायः । द्रव्यसमवेतचाक्षुषरासनघाणजस्पार्शन-
मानसेष्विन्द्रियसेयुक्तसमवाय एव सैनिकर्षः ( सि० च० १ पृ० २२ ) ।
चक्षुरादिसंयुक्ते घटे रूपादीनां समवायादिति भावः ( त० कौ० १
पृ० ९ ) । शब्तरगुणाः कर्म द्रव्यगता जाति: संयुक्तसमवायेन गृह्यते
( न्या० म० १ पृ० ७ ) । घटगतरूपे रूपत्वाद्यस्ति इति रूपत्वादि-
सामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः । शब्देतरगुणगता कर्मगता च
जातिरित्यर्थः ( न्या० म० १ पृ० ७ ) । अत्रायं नियमः येनेन्द्रियेण
यते तेनेन्द्रियेण तद्गतं सामान्यम् तत्समवायः तदभावश्च गृह्यते
इत्यनुसंधेयः (त० कौ० १ पृ० १०) । द्रव्यसमवेतसमवेतस्य चाक्षुष-
रासनप्राणजस्पार्शनमानसेष्विन्द्रियसंयुक्तसमवेतसभवाय एव सैनिकर्षः ।
चक्षुरादिसंयुक्ते घंटे समवेतं रूपादि । तत्र रूपत्वादेः समवायादिति
भाव: (सि० च० १ पृ० २२) । श्रोत्रेण कर्णे ध्वनिः पतति इति
इह वीणाशब्दोस्ति इति वा शब्दसाक्षात्कारे समवायः । कर्णशष्कुल्य-
वच्छिन्नं नभः श्रोत्रम् । तत्र ध्वनिशब्दस्य समयायस्य सत्वादिति भावः
( न्या० म० १ पृ० ८) (प्र० प्र० १० ४ ) ( त० कौ० १
पृ० ९ ) । इह शब्दे शब्दत्वगुणत्वादिकमस्ति इत्येवं श्रोत्रेण शब्द-
स्वादिसामान्यप्रत्यक्ष समवेतसमवायः । अत्र श्रौत्रसमवेते शब्दे शब्द-
त्वादेः समवायादिति भावः ( स० की० १ पृ० ९) । समयायप्रत्यक्षे