2023-02-20 00:54:29 by ambuda-bot
This page has not been fully proofread.
न्यायकोवः ।
१४१
फलम् परशोरिव छिदा इति ( त० भा० पृ० ६ ) । इन्द्रियसवे
प्रमाणं चानुमानम् । तथ ज्ञानकिया सकरणिका क्रियात्वाच्छिदि-
क्रियाबत् इति ( वाच० ) । लक्षणं चेन्द्रियत्वमेव । तच्च स्मॄत्यजनक-
ज्ञानजनकमनः संयोगाश्रयत्वम् ( चि० ) ( प० मा० ) ( वै० उ०
४ । २ । १ ) । अथवा शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारण-
मनः संयोगाश्रयत्वम् ( त० प्र० १ ) ( वाक्य० पृ० ३ ) ( त० दी०
१ पृ० ७) (वै० उ० ४।२।१ ) (बै० वि० ४ । २ । १ ) । तदर्थव
शब्दादितरे ये उद्भूता विशेषसंज्ञकाश्च गुणास्तेषामनाश्रयत्वे सति
ज्ञानस्य कारणीभूतो यो मनः संयोगः इन्द्रियैर्मनसः संयोगः तदाश्रय-
त्वम् । आत्मव्यावृत्यर्थे सत्यन्तदलम् । शब्दमिन्न उद्भूतो विशेषसंज्ञकम
गुणो न कोपि कस्मिंश्चिदपीन्द्रिये तिष्ठति । अनुद्भूतविशेषगुणस्तु अनु
द्भुतरूपादिः वर्तत एवेति । नक्तंचरनयनरश्मिस्तु ( व्याघ्रादिनयनरश्मिः
तेजोन्तरमेव । तस्य चक्षुष्पे तु शब्दरूपैतदितरोद्भूतविशेषगुणाना-
श्रयत्वे सति इति विशेषणं देयम् ( वै० उ० ४।२।१ ) । उद्भूतत्वं
चानुद्भूतत्वाभावकूटरूपम् । अनुद्भूतत्वं च शुकृत्वादिष्याप्यं नानैव
(मु० १ पृ० ११९ ) । अथवा ज्ञानासमानाधिकरणो ज्ञानकारणीभूतो
यो मनःसंयोगस्तदाश्रयत्वम् । चक्षुरादिमनः संयोगमादायैव लक्षणसम-
न्वयः ( म० प्र० १ पृ० १३ ) । घ्राणाद्यन्यान्यत्वं वा । प्रत्यक्षजनक-
ताबच्छेदकतयेन्द्रियत्वमखण्डोपाधिरित्यन्ये ( गौ० वृ० १११/१२ ) ।
सांख्यास्तु इन्द्रियत्वं सात्त्विकाहंकारोपादानत्वम् ( न्या० म० १
पृ० ७ ) अहंकारकार्यत्वे सति कारणत्वं वेत्याहु: ( वाच० ) ।
[ग] साक्षात्कारमात्रवृत्तिधर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयव्या-
पार वदतीन्द्रियम् (प० च० ) । इन्द्रियं द्विविधम् । अन्तरिन्द्रियं
बहिरिन्द्रियं च । तत्राचं मनः । द्वितीयं घ्राणादि । पञ्चविधम् घ्राणम्
रसनम् चक्षुः श्रोत्रम् त्वक् चेति । तदुक्तम् घ्राणरसनचक्षुस्त्वक्त्रोत्राणी-
न्द्रियाणि भूतेभ्यः ( गौ० ११ १२ १२ ) इति । अत्र भोगसाधनानीन्द्रियाणि
( वात्स्या० १ । १ । ९ ) इति भाष्यकार आह । इन्द्रियविषयास्तु गन्ध-