This page has not been fully proofread.

न्यायकोशः ।
 
ध्यम् । १० विवक्षानियमः । ११ मतम् । १२ प्रत्यक्षम् । १३ अब-
धारणम् । १४ व्यवस्था । १५ परामर्शः । १६ मानम् । १७ इत्य-
मर्थः । १८ प्रकर्षः । १९ उपक्रमः । तत्र हेतौ उदाहरणम् इतीव
धारामवधीर्य (नैष ० ) इति स्म सा कारुवरेण लेखितम् (नैष ० ) । प्रकाशार्थे
यथा इतिहरि । प्रकारे यथा इति मदमदनाभ्यां रागिणः स्पष्टरागाः
( माघ ० ) । प्रकरणे यथा इतिकृत्यम् इतिकर्तव्यम् इतिवृत्तम् । इदमर्थे
यथा विरोधिसिद्धमिति कर्तुमुद्यतम् इत्यादि ( वाच० ) । अत्रायं विशेषो
ज्ञेयः । स्वरूपार्थद्योतकता त्रिधा । शब्दस्वरूपद्योतकता प्रातिपदि-
कार्थद्योतकता वाक्यार्थद्योतकता चेति । तत्र शब्दस्वरूपद्योतकत्वे
तद्योगे न प्रथमा । यथा कृष्णेति मङ्गलं नाम यस्य बाचि प्रवर्तते
इत्यादौ । प्रातिपदिकार्थयोतकत्वे तु प्रथमा भवति । यथा चयत्विषा-
मित्यवधारितं पुरस्ततः शरीरीति विभाविताकृतिम् । विमुर्विभक्तावयवं
पुमानिति क्रमादमुं नारद इत्यत्रोधि सः ॥ ( माघ : १ ) इत्यादौ ।
वाक्यार्थद्योतकत्वे च प्रथमा । यथा अत एव गवित्याह भू सत्ताया-
मितीदृशम् । न प्रातिपदिकं नापि पदं साधु तु तत्स्मृतम् ॥ (वैया० सि०
का० २७) । श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात् । प्राप्तस्य बाधा-
दित्येवं परिसंख्या त्रिदोपिका ॥ ( मीमांसा० का ० ) इत्यादौ (बाच ० ) ।
इतिकर्तव्यता --- इत्थंकर्तव्यता क्रमयुक्तकर्तव्यतेत्यर्थः । एवं सर्वे विधा-
येदमितिकर्तव्यमात्मनः । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ।
 
( मनु० ७ । १४२ ) इत्यादा वितिकर्तव्यता । अत्र कर्तव्यस्य इति प्रकारः
इतिकर्तव्यता इति व्युत्पत्तिर्दृष्टव्या । तदर्थश्च कर्तव्यसामान्यस्य मेदकः
कर्तव्यविशेषः । यथा मीमांसकमते प्राशस्त्यं शब्दभावनायामितिकर्त-
व्यतात्वेनान्वयं लभत इति ( लौ० भा० टी० ० ८)। यथा वा
तेषामेव मते स्वर्गकामो यजेतेत्यादी लिङाख्यात बोभ्याया अर्थभावनाया
अपेक्ष्या प्रयाजाद्यङ्गजातात्मिका इतिकर्तव्यता भवति ( लौ० भा० पू०
१०) । यथा वा ओदनकामः पचेदित्यत्र लिङा भावनाभिषीयते ।
तत्र किं भावयेत् कथं भावयेत् इति भाव्याद्याकाङ्क्षायां तृणप्रत्कारादि-