This page has not been fully proofread.

me
 
न्यायकोशः ।
 
इज्या – देवतापूजनम् ( सर्वद० १० ११७ रामानु० ) ।
इतरबावग्रहः-साध्यतावच्छेदकव्याप्ययत्किंचिद्धर्मावच्छिन्नेतरसाध्यतावच्छेद-
कविशिष्टाभाववत्पक्ष विषयकं ज्ञानम् यथा पर्वतो वहिमानित्यादौ

महानसीयेतरवहय भाववान्पर्वतः इति ज्ञानम् । तथा हि । साभ्यता बच्छेद-
कमत्र वशित्वम् । तद्याप्यो यत्किंचिद्धर्मः महानसीयत्वम् । तदवच्छिन्नः
महानसीयवह्निः । तस्मादितर: ( भिन्नः ) यः साध्यतावच्छेदकविशिष्टः
चस्वरीयादिर्वहिः । तदभाववान् पक्षः पर्वतः । तद्विषयकं ज्ञानम् इति ।
अस्य प्रयोजनं हि यथा पर्वतो बह्निमान् इत्यादिस्थले बहिव्याप्यघूमवान्
पर्वतः इति परामर्शादपि महानसीयवह्निभिन्नवहृषभाववान् इतीतरबाध-
प्रहबलात् महानसीयवदित्वा दिनानुमितिः पर्वतो महानसीयवह्निमान्
इति जायत इति ( त० प्र० ख० ४ ) "
 
इतरबाधग्रहसहकृतानुमितिः - ( अनुमितिः ) सामान्यधर्मावच्छिन्नस्य सा-
भ्यत्वे विशेषधर्मावच्छिन्नेतरबाधग्रहसस्त्रे जायमाना विशेषधर्मावच्छिन्नवि-
धेयकानुमितिः । यथा पर्वते धूमेन शुद्धवह्नित्वावच्छिन्नस्य साधने पर्वतो
बहिमानित्यादौ पर्वतो महानसीयवद्विमान् इत्यनुमितिः । अत्र च तादृश-
बाधग्रहकाले सामान्यधर्मावच्छिन्नव्याप्यवत्तापरामर्शादपि विशेषधर्मावच्छि
नविधेयकानुमितिः स्वीक्रियत इति नैयायिकसिद्धान्तो ज्ञेयः ।
इतरेतर:- ( द्वंद्वसमासः ) एकवचनान्यमुचाका: समासः । यथा धवख-
दिरौ छिन्वीत्यादावितरेतरद्वंद्वः । अत्र हि धनखदिरावगती द्विवचनादिः
प्रमाणम् ( श० प्र० १० ६६ ) । भत्रेदं बोध्यम् । धवखदिराविति
स्वरूपदयप्रतीतेर्न लक्षणा शक्तिवेति नैयायिकसिद्धान्तः । मीमांसकाब
धवखदिरावित्यादावुत्तरपदे धबम्वदिरादिसाहित्याश्रये लक्षणामाडुः । वैया-
करणास्तु तादृशसाहित्याश्रये शक्तिमाहुः ( न्या० म० ४ पृ० १३ ) ।
शाब्दिकाच मिलितानामन्वय इतरेतरः इति वदन्ति ।
इतरेतरत्— अन्योन्यशब्द वदस्यार्थोनुसंधेयः ( ७० म० ) ।
-
इति – ( अव्ययम् ) १ हेतुः । २ प्रकाशनम् । ३ निदर्शनम् । ४ प्रकार: ।
५ अनुकर्षः । ६ समाप्तिः । ७ प्रकरणम् । ८ स्वरूपम् । ९ सानि-
-