This page has not been fully proofread.

न्यायकोशः ।
 
१२०
 
भिन्नत्वे सति संबन्धानवच्छिन्नप्रकारताकत्वम् ( ७० व० पू० ३५ ) ।
अत्रेदमुक्तम् । आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत्कृतिः । कतिजन्या
भबेचेष्टा चेष्टाजन्या भवेत्क्रिया ॥ इति । इच्छा चात्मधर्म इति नैयायिक-
सिद्धान्तः । कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरभृतिधर्मी-
रित्येतत्सर्वं मन एव इति श्रुतेः स मनोधर्म इति सांख्या मायावादिन-
बाहुः । श्रुतौ कामपदेनेच्छोच्यते । इच्छा द्विविधा । फलविषयिणी
तदुपायविषयिणी चेति । अत्र मुख्यं फलं सुखं दुःखाभावश्च । तत्र
फलेच्छां प्रति फलज्ञानमात्रं कारणम् । अत एव फलस्य स्वतः
पुरुषार्थत्वं संभवति इति बोध्यम् ( भा०प० लो० १४७ ) (मु०
गु० पृ० २२० - २२१ ) ( त० कौ० पृ० १८ ) । अत्रेदं रहस्यम् ।
सुखस्यैष चरमफलत्वेन सुखाद्यात्मक फलानन्तरं फलान्तराभावात् सुखे-
च्छाया नेष्टसाधनत्वज्ञानापेक्षा । अपि तु सुखज्ञानेनैव सुखेच्छोत्पद्यते
इति । उपायेच्छां प्रति त्विष्टसाधनताज्ञानं कारणम् ( भा०प० लो०
१४७ ) ( मु० गु० पृ० २२१ ) ( त० कौ० पृ० १८) । यथा
स्वर्गात्मकफलस्य उपायो यागः । तद्विषयकेच्छां प्रति यागो मम इष्टस्य
स्वर्गात्मकफलस्य साधनम् इति ज्ञानं कारणम् । इच्छां प्रति बलवद-
निष्टाननुबन्धित्वज्ञानमपि कारणं भवति । पुनरपि नित्यानित्यमेदेनेच्छा
द्विविधा । तत्र जीवेच्छा अनित्या । ईश्वरेच्छा तु नित्या सर्वे जगद्भूयात्
इति समूहालम्बनात्मिका चेति । मायावादिनस्तु व्योमादिवत्सा अनित्ये-
ब्याहुः (वाच० ) । [ख] स्वार्थ परार्थ वा अप्राप्तप्रार्थना । सा चात्म-
मनसोः संयोगात्सुखाद्यपेक्षात्स्मृत्यपेक्षाद्वोत्पद्यते । प्रयत्नस्मृतिधर्माधर्महेतुः ।
कामः अमिलाषः राग: संकल्पः कारुण्यम् वैराग्यम् उपधा भावः
इत्येवमादय इच्छामेदाः । मैथुनेच्छा कामः । अम्यवहरणेच्छा अभि-
काषः । पुनः पुनर्विषयानुरजनेच्छा रागः । अनासन्नक्रियेच्छा संकस्पः ।
स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा कारुण्यम् । दोषदर्शनाद्विषयत्यागेच्छा
वैराग्यम् । परवचनेच्छा उपधा । अन्तर्निगूढेच्छा भावः । चिकीर्षा-
जियादिक्रियामेदादिच्छामेदा भवन्ति ( प्रशस्त ० २ पृ० ३१) ।
१८ म्या० को०