This page has not been fully proofread.

न्यायकोशः ।
 
१३३
 
आश्रयासिद्धः -( हेत्वाभास: ) [ क ] यस्य हेतोराश्रयो नावगम्यते सः ।
[ ख ] यस्य हेतोः पक्षोप्रसिद्धः सः । स च आश्रयासिद्धः पक्ष-
ताबच्छेदकाभाववरपक्षकः । यथा गगनारविन्दं सुरम्यरविन्दत्वात्सरोजा-
रविन्दवदिव्यत्रारविन्दत्वमाश्रया सिद्धम् ( त० सं० ) ( प्र० प्र० )
( त० कौ० २ पृ० १४ ) ( त० भा० ० ४५ ) । आश्रयासिद्ध-
शब्दार्थस्तु आश्रयस्य पक्षस्य असिद्धिः पक्षे पक्षतावच्छेदकस्याभावः
तद्वान् इति । एतळक्षणं च वक्ष्यमाणाश्रयासिद्धिमत्वमेवेति बोभ्यम्
( वाक्य ० २ पृ० १७ ) । अनन्तरोदाहरणे गगनारविन्दमाश्रयः स
च नास्त्येव ( त० मा० पृ० ४५ ) ( त० सं० ) । अत्र चारविन्दे पक्षे
गगनीयस्वं पक्षतावच्छेदकं नास्तीत्यरविन्दत्वं हेतुराश्रयासिद्धः । आश्रया-
सिद्धस्य हेत्वाभासत्वं त्वित्थम् । आश्रयासिद्धत्वज्ञानं च परामर्शप्रतिबन्ध-
कम् । अत्र आश्रयासिद्धत्वज्ञानस्य पक्षे पक्षतावच्छेदक वैशिट्याबगाहि-
प्रहप्रतिबन्धकत्वेन परामर्श प्रतिबन्धकत्वमिति ज्ञेयम् । अरविन्दे गगनी-
यस्त्वं नास्ति इति ज्ञाने सुरभित्वव्याप्यारविन्दत्ववद्गगनारविन्दम् इति
परामर्शासंभवात् । एतस्य परामर्शस्य अरविन्दे गगनीयत्वसंबन्धावगा-
हित्वात् इति ( त० कौं० २ पृ० १४ ) । तथा च अरविन्दे गगनी-
यत्वाभावे निश्चिते गगनीयत्वविशिष्टारविन्दे सौरभानुमितिप्रतिबन्धः
फलम् ( न्या० बो० २ पृ० १८ ) । आश्रयासिद्धो द्विविधः असदा-
श्रयासिद्धः असाधकब्श्चेति । तत्राद्यो यथा गगनारविन्दं सुरभि भर-
विन्दत्वात् सरोजारविन्दवत् इति । द्वितीयो यथा ईश्वरवादिनं प्रति
क्षित्यादिकं सकर्तृकम् कार्यत्वाइटवत् इति । अत्र साभ्यस्य निश्चितत्वेन
पक्षे साभ्यसंदेहानुपपत्तौ संदिग्धसाध्यवतः पक्षस्याभाबादा अयासिद्धि-
बोया (प्र० च० पृ० ३१ ) ।
 
आश्रयासिद्धिः -( हेतुदोषः ) ज्ञानस्य विषयतया विशिष्टपक्षप्रहविरो-
धितावच्छेदकं रूपम् ( दीषि० २ पृ० २१७ ) । तच्च रूपम् पक्षता-
वच्छेदकविशिष्टपक्षासिद्धिः । अथवा पक्षतावच्छेदकाभाववान् पक्षः ।
यहा पक्षे पक्षतावच्छेदकस्यामान: ( न्या० ब०२० १८) । यथा