This page has not been fully proofread.

न्यायकोशः ।

 
आशंसनम्-आशीर्वादबदस्यार्थोनुसँचेयः
 
आश्रयः -आ फलविपाकाचित्तभूमौ शेरत इत्याशयाः धर्माधर्मसंस्काराः
( सर्व० सं० पृ० ३६५ पातज० ) ।
 
१३२
 
आशा – अनिर्ज्ञातप्राप्येष्टार्थप्रार्थना ( काठ० ११८ भाष्यम् ) ।
आशी:-[ क ] वक्त्रिच्छाविषयत्वम् । यथा घटमानय इत्यादौ लोडर्थः ।
अत्र घटकर्मक मदिच्छाविषयानयनानुकूलकृतिमांस्त्वम् इत्यर्थः ( तर्का० ४
पृ० १४ ) । यथा वा आयुराशास्तेयं यजमानोसौ ( तैत्तिरीयब्राह्मणे
३१५/१० ) इत्यादाषापूर्वकशास्धात्वर्थः । [ ख ] शाब्दिकास्तु
हितविषयिका लोडायन्तशब्दप्रयोक्त्रिच्छा । यथा भवतु ते शिवप्रसाद
इत्यादौ लोडर्थः इत्याहुः । अत्र हितविषयकमदिच्छाविषयो यस्त्व-
त्संबन्धिशिवप्रसादस्तत्कर्तृकं भवनम् इति बोध: ( वै० सा० ६० पू०
१२९ ) । [ग] इष्टार्याविष्करणमिति कश्चिद्वक्ति । यथा यां वै
कांचन यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैव सा ( शत० प्रा०
१।३।१।२६ ) इत्यादौ (बाच० ) ।
 
आशीलिंङ् (लिङ् ) य आशंसनस्य भावित्वस्य च बोषको खकारः स
आशीर्लिङित्युच्यते । यथा भूयात् भूयास्तामित्यादावाशीर्लिंड् । जीवतु
भवानित्यादौ तु लोडादिकं आशंसनीयत्वस्य बोधकमपि न मावित्वस्य ।
जीविष्यतीत्यादौ भावित्वस्य बोधकोपि लडादिर्नाशंसनीयत्वस्य बोधकः ।
अतो न तत्र लोट्टडादौ अतिप्रसङ्गः। बाशीर्लिङ् प्रत्ययस्तु प्रकल्पस्याशंसां
भावित्वं चानुभावयतीति लक्षणसमन्बयो बोभ्यः ( स० प्र० पृ०
१६२) ।
 
आशौचम् –न नुचिः अनुचिः । तस्य भाव भाशीषम् । आशौचसन्देन
च काळविशेषखानायपनोचः पिण्डोदकदानादिविषेरध्ययनादिपर्युदासस्य
च निमित्तभूतः पुरुषगतः कचनातिशयः कथ्यते ( मिताक्षरा
० ३।१ ) ।
 
आभगत्वम् अभिकरणतापदण्यानुसचेयः ।