This page has not been fully proofread.

आलयम् - १ कृतेरभावः ( सि० च० १५० ३) । शरीरवाचि-
चमुक्त्वादप्रवृत्तिरालस्यम् ( सर्व० सं० पृ० ३५५ पातञ्ज० ) । २ आ-
लस्वं गुणविशेष इति केचिदाडुः ।
 
-
 
आलोक: - १ सूर्यादितेज:प्रकाशः । यथा गृह्णाति चक्षुः संबन्धादा-
लोकोद्भूतरूपयोः ( भा०प० लो० ५६ ) इत्यादौ । २ दर्शनम् ।
यथा यदालोके सूक्ष्मं ब्रजति सहसा तद्विपुलताम् (शाकु० ) इत्यादौ ।
बालोचनम् - १ विशेषधर्मादिना विवेचनम् । २ चाक्षुषज्ञानम् ।
सांख्यास्तु सामान्यविशेषशून्यतयेन्द्रियजन्यो निर्विकल्पकस्थानीयोन्तःक-
रणवृत्तिविशेष इत्याहु: ( वाच० ) ।
 
आवरणम् – १ प्रातिप्रतिषेधः (वात्स्या० १ । २/८ ) । २ अविद्येति माया-
बादिनो जगुः । ३ बाधं तम इति माध्याः । ४ आच्छादनमिति काव्यज्ञाः ।
 

 
-१ आनयनम् । २ आक्षेप इति केचित् । ३ संग्रहः । घटं
नय गामानय इत्याबापोद्वापाम्यामित्यादौ । ४ प्रधानहोम आवाप इति
यात्रिका आड: ( वाच० ) । ५ यस्त्वावृत्या बहुनुपकरोति स आवापः
( जै० म० दृ० अ० ११ पा० १ सू० १ ) ।
आविर्भाव: - १ उत्पत्तिः । यथा मुदो घटस्याविर्मावः । २ सांख्यास्तु
प्रकाशात्मिका अभिव्यक्तिराविर्भावः । यथा कूर्मशरीरादङ्गानामाविर्भाव
इमाइ ( वाच० ) । इत्थं हि सांख्या मायावादिवेदान्तिनश्र वदन्ति ।
एकल्या मृदः सुवर्णस्य वा घटमुकुटादयो विशेषा निःसरन्त आविर्भवन्त
उत्पद्यन्त इत्युच्यन्ते । न पुनरसतामुत्पादः सतां वा निरोधः इति ।
नैयायिकास्तु बुद्धिशब्दकार्यकाळाकारसंख्यादिमेदास्कार्यस्य कारणाद्रि-
अतया ( श्रीमाव्य० २।१।१५) कारणादुत्पत्तिरिति प्राडुः ।
आइति: - १ पुनः पुनरभ्यासः । भूय एकज्जातीयक्रियाकरणमिति यावत् ।
यथा आवृत्तिरसदुपदेशात् ( म० सू० ४ । १ । १ ) इत्यादौ श्रोतब्यो मन्तव्य
इति श्रवणादीनामावृत्तिः । यथा या आवृत्तिः सर्वशास्त्राणां बोधादपि
गरीयसी (उद्घटः ) इत्यादी । २ स्वस्थानस्थितस्य पदस्य पदसमूहस्य
या पुनरनुसंधानम् ( दि० ४ पृ० १८८) । यथा हलम्ल्यम्
(१॥३॥ ३ ) इति पाणिनिसूच
स्मारणाय पुनरगुसंधानम् ।