2023-02-20 00:54:26 by ambuda-bot
This page has not been fully proofread.
न्यायकोडः ।
( तादृशस्त्रेहस्योत्कृष्टत्वेन ) घृतादेर्दहनानुकूलत्वम् । सक्तुसिकतादौ
पिण्डीभावः संग्रहनामकः संयोगविशेषो द्रवत्वखेहकारित एव इति
(वै० वि० २१११२) (बै० उ० २१११२) । आपो वायुविशेषसंयोग-
जन्या वायुविशेषरूपा एव न तु द्रव्यान्तरमित्याधुनिका इणविद्याविशारदा
वदन्ति । तन सह्यते नैयायिकैरित्यलं तदुपपत्तिदोषोपन्यासेन ।
आप्तः -[ क ] आप्तः खलु साक्षात्कृतधर्मा । ऋष्यार्यम्लेच्छानां समानं
लक्षणम् । तथा च सर्वेषां व्यवहाराः प्रवर्तन्ते । साक्षात्करणमाति-
स्तया प्रवर्तत इत्याप्त इत्यर्थः ( वात्स्या० १ । १ ।७ ) । अत्राप्तत्वं च
प्रयोगहेतु भूतयथार्थज्ञानवखम् ( न्या० बो० ४ पृ० १९ ) । [ ख ]
प्रकृतवाक्यार्थयथार्थज्ञानवान् ( गौ० दृ० १।१।७ ) । यथा आप्तो-
पदेशः शब्दः ( गौ० १११७ ) इत्यादावाप्तः । [ग] यथाभूतस्या-
बाधितार्थस्योपदेष्टा पुरुष: ( त० भा० पृ० १७ ) ( प्र० प्र० )
( सि० च० ४ पृ० ३० ) । [ घ ] यथार्थवक्ता ( त० सं० ४ ) ।
यथा सत्यवतीसुतव्यासगौतमादिराप्तः । [ व ] अनुभवेन वस्तुतस्वस्य
कार्येन निश्चयवान् रागादिवशादपि नान्यथाबादी यः स आप्तः
इति चरके पतञ्जलि: ( ल० म० पत्र० २ ) ।
आप्तोपदेशः– ( प्रमाणशब्द: ) [ क ] यथादृष्टस्यार्थस्य चियापयिषया
प्रयुक्तः शब्दः । [ ख ] प्रकृतवाक्यार्थयथार्थज्ञानप्रयुक्तः शब्दः । अथवा
आप्तो यथार्थ उपदेश: शाब्दबोधो यस्मात् ( गौ० वृ० ११ १/७) ।
यथा ब्रह्मसूत्रन्यायसूत्रादिराप्तोपदेशः ।
आप्यम् – ( नक्षत्रम् ) पूर्वाषाढा ( पु० चि० १० ३५३ ) ।
आप्यायनम् –कुशोदकेन जप्तेन प्रत्यर्ण प्रोक्षणं मनोः । वारिवाजेन
विधिषदेतदाप्यायनं मतम् ॥ ( सर्व० सं० पू० ३७० पातञ्ज० ) ।
आमासः - १ ( निग्रहस्थानम् ) व्यभिचारादाबसियानम् ( गौ ०
वृ० ५/२/२२ ) । यथा पर्वतो धूमवान्वहेरित्यादौ बहिः स्वरूपासिद्धः
स्यादिति । निरनुयोज्यानुयोगप्रमेदोपमिति विज्ञेयम् (गौ० १० ५/२/२२) ।