2023-02-20 00:54:26 by ambuda-bot
This page has not been fully proofread.
आध्यात्मिकवायुः -प्राणाख्यो वायुः । यथा वृक्षादीनां शरीरत्वे आध्या-
त्मिकवायुसंबन्धः प्रमाणमित्यादी (मु० १ पृ० ७१ ) । अत्र आत्मानं
मनःशरीरादिकमधिकृत्य इति व्युत्पत्तिद्रष्टव्या । अयं च विषयवायावन्त-
र्भवति इति विज्ञेयम् ।
आनतिः - मृत्या परिक्रीय बशीकार आनतिः ( जै० न्या० अ० १०
पा० २ अधि० ८ ) ।
आनन्तर्यम् - १ ध्वंसाधिकरणकालवृत्तित्वम् ( त० प्र० २ ) । यथा
वैशाखमासस्य चैत्रानन्तर्यम् । यथा वा अथ हेत्वाभासास्तत्त्वनिर्णय-
विजय प्रयोजकत्वानिरूप्यन्ते इत्यादाबथशब्दार्थोवयवान्तनिरूपणानन्तये
हेत्वाभासनिरूपणे बोध्यते । २ अव्यवधानम् । यथा आनन्तर्यात्स्वयो-
न्यास्तु तथा बाह्येष्वपि क्रमात् ( मनुः ) इत्यादौ ( वाच० ) ।
आनन्द: १ सुखम् । यथा रसो वै सः । रस ह्येवायं लब्ध्वानन्दी
भवति (तै० उ० २।७।१ ) इत्यादौ । २ दुःखाभावः । यथा परमात्मन्या-
नन्दानङ्गीकारपक्षेपि भारापगमे सुखी संवृत्तः इत्यादाविव दुःखाभावरूप
आनन्दः (मु० १ पृ० १०३ ) । अत्र आनन्दशब्दो लक्षणया
दुःखाभावबोधक इति ज्ञेयम् ।
आनुपूर्वी-तदुत्तरत्वविशिष्टतदुत्तरत्वादिः । यथा घटमानयेत्यक्षराणामानु-
पूर्वी । यथा वा उचितानुपूर्वी प्रतिज्ञोत्तरहेतूत्तरोदाहरणोत्तरोपनयोत्तर-
निगमनत्वरूपेत्यादौ (ग० अव० पत्र० ४) । आनुपूर्वी च घटः इत्यत्र
स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वसंबन्धेन घकारविशिष्टटत्वम् इति चिन्त्या
( त० प्र० ख० ४ पृ० १२७ ) । एवमन्यत्राप्यूषा ।
-
आनुपूर्व्यम् – कमः ( जै० सू० वृ० अ० ५ पा० १ सू० १) ।
आनुषङ्गिकम् – उद्देश्यान्तरप्रवृत्तस्य तत्कर्मनान्तरीयकतया प्राप्तः प्रासङ्गि-
कोनुद्देश्यः कार्यविशेषः । यथा भो बटो मिक्षामट यदि गां पश्येस्तां चान-
येत्यादौ । अत्र भिक्षार्थ प्रवृत्तस्य दैवानोदर्शनात्तस्या आनयनमानुषङ्गि-
कम् । तत्रोदेश्यत्वाभावादिति बोध्यम् (वाच० ) ।