This page has not been fully proofread.

G
 
आदिः - १ तत्प्रागभावाधिकरणकालः । यथा आदौ द्रव्यं स्वीकुरु इत्यादौ ।
यथा वा आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते इत्यादौ ।
२ कारणम् । यथा आदिमस्वादैन्द्रियकत्वात्कृतकवदुपचाराच ( गौ०
२।२।१४ ) इत्यादौ । अत्र आदीयते अस्मात् इति व्युत्पत्तिर्दृष्टव्या
( वात्स्या० २/२/१४ ) । ३ उत्पत्तिः । यथा अनादिः प्रागभाव
इत्यादौ । ४ परस्मिन्सति यस्मात्पूर्वी नास्ति स आदिरिति शाब्दिका वदन्ति ।
आदेश: - १ आज्ञा । २ स्पान्यर्थाभिधानसमर्थ इति शाब्दिका बदन्ति ।
३ कथनम् उपदेशो वा । यथा अथात आदेशः इत्यादौ इति वेदा-
न्तिन आडुः ।
 
आद्यत्वम् -अनागन्तुकै श्वर्यसंबन्धित्वम् ( सर्व० सं० पृ० १६८ नकु० ) ।
आवारः अतद्रूपोपि तद्रूपेणारोप्य बुद्धौ स्फुरभाधार: ( सिद्धा० ले०
पृ० १८६ ) ।
 
आधारता - अधिकरणताबदस्यार्थोनुसंधेयः । अयं चाखण्डोपाधिः इति
नैयायिका आहुः (वै० सा० सुबर्थ० पृ० ८६ ) (ग० ब्यु०
कार० ७ पृ० ११६) ।
 
आधि: ---- आघीयते विश्वासार्थ स्वाप्यत इत्याधि: ( गहाण इति प्र० ) ।
गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमर्णेनोत्तम अधिक्रियत आधीयत
इत्याधिः ( मिताक्षरा अ० २१५७ ) ।
 
आधिक्यम्-व्यतिरेकवदस्यार्थोनुसंधेयः ( श० प्र० पृ० १२८ ) ।
वाधिदैविकम् – देवकृतम् । यथा वातादिनिबन्धनं दुःखम् (बाच० ) ।
अत्र देवान् वातादीन् अधिकृत्य प्रवृत्तम् इति व्युत्पत्तिद्रव्या
आधुनिकी–(लक्षणा) पूर्वपूर्व तादृष्येणाप्रत्यायकत्वादाधुनिकी । यथा
घटत्वादिना पटादिपदस्य लक्षणा ( श० प्र० ५० ३१) ।
 
आधेयता-[क] आधेयम् इति प्रतीतिनियामको धर्मविशेषः (वृतित्वम्) ।
गया भूतलं घटवदित्यादौ घंटे मूतलाघेयता । [ख] प्रकारताविशेष
इति केचिदन्ति ( ग० पक्ष ० ) । [ग] अखण्डोपाधिरियन्ये बदन्ति ।