This page has not been fully proofread.

मिक्षामित्रः कथंचन । ज्ञानं पूर्वापरीभूतं सोयमात्मेति कीर्तितः ॥ (सर्व ●
सं० पृ० ६९ आईत० ) । चैतन्यमात्मा ( सर्व० सं० पृ० १९६
प्रत्यभि० ) । चैतम्यविशिष्टं देहमास्मेति लोकायता मन्यन्ते । इन्द्रियाण्या-
त्मेत्यन्ये । अन्तःकरणमात्मेत्यपरे । मुख्यः प्राण एवात्मेति चान्ये । पुत्र
एवात्मेति केचित् । क्षणमकुरं संतन्यमानं विज्ञानमात्मेति बौद्धाः । देहा-
तिरिक्तो देहपरिणाम आत्मेति जैना जनाः प्रतिजानते । कर्तृत्वादिविशिष्टः
परमेश्वराद्भिको जीवात्मेति नैयायिकाः । द्रव्यबोधखभावमात्मेत्याचार्याः
परिचक्षते । भोक्तव केवलं न कर्तेति सांख्याः संगिरन्ते । चिद्रपः
कर्तृत्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्यौपनिषदाः ( सर्व० सं०
पृ० ४१४ शकि० ) ।
 
आत्माश्रयः ( तर्क: ) [ ] स्वस्य स्वापेक्षापादकः प्रसङ्गः ( जग०
तर्क० ) । यथा कार्यत्वावच्छिन्नकार्य तानिरूपितकारणावं साधारण-
कारणत्वमित्यादौ । अत्र एकं कार्यत्वमवच्छेदकम् । अपरं त्ववच्छेयम् ।
तथा चावच्छेदकज्ञानं विना अवच्छेद्यज्ञानं न भवति । अयच्छेद्यज्ञानं
विनाप्यवच्छेदकज्ञानं च न भवति । परस्परसापेक्षत्वादिष्यात्माश्रय इति
बोध्यम् । [ ख ] स्वस्य स्वापेक्षितत्वे अनिष्टप्रसङ्गरूपो दोषः । स
चोत्पत्तिस्थितिज्ञप्तिद्वारा त्रेधा । कमेण यथा यद्ययं घट एतबटजन्यः
स्यात्तदैतटानधिकरणक्षणोत्तरवर्ती न स्यात् । यद्ययं घट एतवटवृत्तिः
स्यात् एतद्धटव्याप्यो न स्यात् । यद्ययं घट एतदटवानाभित्रः स्वाद
ज्ञानसामप्रीजन्यः स्यात् । एतदटभिन्नः स्यादिति वा । एवं सर्वत्रापाचम्
(गौ० १० ११११४० ) । [ग ] स्वज्ञाने स्वज्ञानापेक्षया आत्माश्रयः
( कृष्ण० ) ।
 
आदानम् – यथेष्टविनियोगफलकः स्वीकारः । यथा विभाजनमादचे इत्यादी
दाधात्वर्थः ( का० व्या० पू० १० ) ।
 
आदानसमितिः —–आसनादीनि संवीक्ष्य प्रतिकचम भ यवतः । गृह्णीया-
निक्षिपेलायेत्सादान समितिः स्मृता ॥ ( सर्व० सं० १० ७९ आई० ) ।
१६ न्या० को.