This page has not been fully proofread.

१३०
 
न्यायको
 
संबन्नाति इति व्युत्पत्त्या कर्तृसंबन्धे क्रियाफल एवात्मनेपदम् इति ।
तदनुसृत्यैव दानादिस्यले स्वगते फले ददे इत्येवम् परगते तु ददानि
इत्येवं वाक्यं प्रयुञ्जते॑ वृद्धाः । चिन्तामणिकृतस्तु (गोपाभ्यायाः)
यंत्र क्रियाफले कर्तुरभिप्राय इच्छा तत्रैवात्मनेपदम् इति । तेन याज-
काद्यैर्दक्षिणादिलामेच्छयैव यागादिकरणे यजन्ति याजकाः पठन्ति
पाठकाः इति परस्मैपदम् । परगतस्यापि यागादिफलस्येच्छया तत्करणे
तु यजन्ते याजकाः इत्यादिकः साधुरेष प्रयोगः । अत एव पितृस्वर्गकामः
पुष्करिण्या यजेत इत्यादावप्यात्मनेपदम् धनकामो गणपति मोक्ष-
कामोर्चयेद्धरिम् इत्यादौ परस्मैपदं च संगच्छते इत्याहुः ( श० प्र०
पृ० १४५ ) ।
 
आत्मा - (द्रव्यम्) [क] आत्मत्वसामान्यवान् (त० कौ० ११० ३ ) ।
आत्मत्वं नाम समवायेन ज्ञानेच्छादिमत्वम् ( वाक्य० पू० ५) ।
अथवा अमूर्तसमवेतद्रव्यत्वापरजातिः ( सर्व० सं० पृ० २१९ औ० ) ।
[ख] ज्ञानाधिकरणम् ( त० सं० ) । यथा आत्मा वारे द्रष्टव्यः
श्रोतव्यो मन्तव्यो निदिष्यासितव्यः इत्यादिश्रुतौ । भात्मा द्विविधः ।
जीवात्मा परमात्मा चेति । तत्राद्यः प्रतिशरीरं मिन्नो विमुर्नित्यश्च कर्ता
मोक्ता च । द्वितीयः ईश्वरः सर्वज्ञ एक एक ( त० सं० ) ( त० कौ० ) ।
तत्र प्रमाणं श्रुतिः । सा च द्वे ब्रह्मणी वेदितव्ये परं चापरमेव च इति ।
तमेवं विदित्वातिमृत्युमेति इति च ( म० प्र० पृ० ३ ) । गुणविशिष्ट-
मात्मान्तरमीश्वरः इति (वात्स्या० ४ । १ । २१ ) । आत्मा चाप्रत्यक्ष एवेति
वैशेषिका : ( वै० ८।११२ ) । तन्मते आत्मानुमानगम्य एव । तच्चानु-
मानम् करणव्यापारः सकर्तृकः करणव्यापारत्वात् छिदिक्रियायां वा-
स्यादिव्यापारवत् इति । करणव्यापारेण कर्तरनुमानगम्यत्वे तत्साजात्यात्
ज्ञान क्रियाकरणमपि सकर्तृकं करणत्वात् इति चक्षुरादिना ज्ञानसाधने
नात्मनोनुमानम् ( वाच० ) । नैयायिकास्तु जीवात्मा मानसप्रत्यक्षविषय
इति प्राडु: ( मा० १० को० ५०-५१ ) । अन्यत्सर्वे जीवात्म-
परमात्मशब्दव्याख्यानावसरे व्यक्तीमविष्यति । ज्ञानावियो न नाभिको