This page has not been fully proofread.

न्यायकोचः ।
 
आप्रेयी (दिक् ) उदयगिरिसंनिहिता सुमेरुव्यवहिता न दिक् (३०
वि० २१२।१० ) । यथा मुम्बापुरीत आनेष्यां दिशि मद्रासपुरी ।
आइ~-( अव्ययम् ) १ ईषदर्थः । यथा आताम्रः आपिङ्गल इत्यादौ ।
२ अमिव्याप्तिः । यथा ब्रह्मास्यासकलात् इत्यदौ । ३ सीमा । यथा
आसमुद्रक्षितीशानामानाकरथवर्त्मनामित्यादौ । ४ अभ्यासः । आवृत्ति -
रित्यादौ ( बाच० ) । यावत् मर्यादा अभिविधिः एतेषामर्थबदस्यार्थोनु-
संय: ( ग० ब्यु० का० २ ख० २ पृ० ७६ ) ।
 
आचार: – १ प्रवृत्तिविषयत्वम् ( मू० म० १ ५० १०१ ) । यथा
तथैव शिष्टाचारात् ( शि० १५० १०० ) इत्यादौ । सदाचार-
लक्षणमित्यम् । विद्वेषरागरहिता अनुतिष्ठन्ति यं द्विजाः । विद्वांसस्तं
सदाचारं धर्ममूलं विदुर्बुधाः ॥ इति ( म०प्र० ३ ) । २ क्रिया ।
३ कृतिः । यथा अलौकिकाविगीतशिष्टाचारविषयत्वमित्यादौ ( दि० १
पृ० ५ ) । ४ गुरूक्तस्यार्थस्याङ्गीकरणमाचार इति योगाचारबौद्धा
वदन्ति ( सर्व० पृ० ३० बौद्ध० ) ।
 
आचार्य:-[ क ] उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । साच
सरहस्यं च तमाचार्य प्रचक्षते ॥ ( सर्व० सं० पृ० २६८ जै० ) ।
[ख] उपनीय ददद्वेदमाचार्यः स उदाहृतः ( मिताक्षरा अ० 8
को० ३४ ) ।
 
आवा -१ [क] यस्या इच्छाया भन्ने भयं सा ( कु० ५ ) । यथा
गच्छतु भवान्देशान्तरमिति राजाज्ञा । [ ख ] वज्रनुमतत्वे सति कर्तुर-
निष्ठहेतुत्वम् । यथा शूलं विश विषं भुङ्क्वेत्यादिराजवाक्यस्थलीय-
लोडर्थः । [ग] अमिप्रायः । यथा कुर्या इत्यादौ लिखर्च: ( कु०
टी० ५ को० १३ ) । [घ ] भयजनकेच्छा लिमदिघटितं
बाक्यं वा आज्ञेति शाब्दिका: (बै० सा० ६० ल० पू० १३१) ।
[ ] निकृष्टस्य मृत्यादेः कियादी प्रवृत्त्यर्थः व्यापार विशेषः । यथा