2023-02-20 00:54:25 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
[ख] क्रियाजनकव्यापारमात्रमिति भट्टमीमांसका ( म०प्र० ) ।
[ग] ] उत्पादना । सा चोत्पादक्रवेति रनकोशकृत् (चि०४ ) ।
[६] कर्ता कर्म चाख्यातार्थ इति शाब्दिका वदन्ति ( म०प्र०
पृ० ५५ ) । आख्यातपदं वैयाकरणमतेपि तिङ्परमिति मत्वेदमुक्तम् ।
वस्तुतो वैयाकरणमत आख्यातं नाम तिङन्तम् (शब्दे० शे० समा० पृ०
२३६) इति बोष्यम् । वर्तमानादिकालब्ध तिर्थ: ( म०प्र० पृ० ५५ ) ।
एकत्वादिसंख्या च तिर्थ: ( चि०४ ) । आख्यातत्वं दशलकार-
साधारणम् ( लौ० मा० ) । सर्वत्र आख्यातार्थो भावनेति मीमांसकाः ।
मणिकृतस्तु (गङ्गेयोपाध्यायाः ) जानातीत्यादौ यतो नाल्यातस्यार्थः किं
तु काळसंख्ये उमे एवेव्याः ( न्या० म० ४ पृ० १९ ) ।
-
आगमः – १ वेदशास्त्रमन्त्रादिः ।
यथा आगमः खल्वपि ब्राह्मणेन
निष्कारणो धर्मः षडङ्गो वेदोध्येयो ज्ञेयवेत्यादौ ( म० मा० ११ १११ )।
आगमलक्षणं च प्रामाणिकैरित्यमुच्यते सिद्धं सिद्धैः प्रमाणैस्तु हितं
वात्र परन्त्र वा । आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्यवेदिनः ॥ इति । २
प्रत्ययादेशमिन्नत्वे सति साक्षात्यसंस्कारकतया शास्त्रविहितः प्रकृतिप्र-
व्ययानुपघातको यः अट् इट् इत्यादिः स आगम इति शाब्दिका बदन्ति ।
३ साक्षिपूर्वकं लिखितपत्रम् ( दस्तऐवज इति प्र० ) । यथा आगमो
निष्फलस्त्र भुक्तिः स्तोकापि यत्र नो ( वीरमित्रो० २ दाय० )
इत्यादावागमशब्दस्यार्थ इति व्यवहारशास्त्रज्ञा आहुः । ४ स्वत्वहेतुः
प्रतिमहक्रियादिरागमः ( मिताक्षरा अ० २ लो० २७) । ५ उत्पत्तिः ।
यथा आगमापायिनो नित्याः ( गीता० ) इत्यादौ ( वाच० ) ।
आगमनम् – १ [ क ] किंचिदेशावधिकविभागजनकक्रिया । यथा संव-
उसरे व्यतीते तु पुनरागमनाय चेत्यादौ । [ख] प्रयोक्तृसंनिकटप्रदेशा-
नुयोगिकसंयोगानुकूळव्यापारः । यथा अयं देवदत्तोत्रागच्छतीत्यादौ ।
२ प्राप्तिः । यथा एतते सर्वमाख्यातं वैरत्यागमनं महद्रित्यादौ
( रामा० ) ।