2023-02-20 00:54:25 by ambuda-bot
This page has not been fully proofread.
१२६
न्यायकोषः ।
नान्या सरवानां तद्बयवानां च नियताद्यूहादिति । नियतावयवम्यूहाः
खलु सत्त्वावयवा जातिलिङ्गम् । शिरसा पादेन गामनुमिन्वन्ति । नियते च
सत्त्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति ( वात्स्या ० २/२/६७) ।
[ ख ] अषयवसंस्थानविशेषः । यथा घटस्य कम्बुनीवादिराकृतिः
( दि० ४ पृ० १७८) । [ग] रूपक्रियादिविशिष्टमवयवसंस्थानं
जातिलिङ्गमेवाकृतिरिति शाब्दिका वदन्ति । आकृतिश्च शक्यार्थ एवेति
केचित् ( पतञ्जलिप्रभृतयः ) मन्यन्ते ( वाच० ) ।
आक्षेपः – १ अर्थापत्तिः ( न्या० म० ४ पृ० ६ ) ( नील० पृ० २८ ) ।
अर्थापत्तिरित्यस्यानुमितिरित्यर्थः ( म०प्र० ४ पृ० ३९ ) । २ समान-
वित्तिवेद्यत्वमाक्षेप इति गुरवः ( न्या० म० ४ पृ० ६ ) । ३ आक्षेप-
वानुमानमर्थापत्तिर्वेति भट्टा: ( ग० शक्ति० ) । अत्र बहूनां विप्रति-
पत्तिरुदाह्वियते । गवादिपदानां गोत्व एव शक्ति: व्यक्तिलाभस्त्वाक्षेपादिति
मीमांसकाः । तत्र गोत्वं हि स्वाश्रयं विनानुपपन्न मिति तमाक्षिपतीति
भट्टा: ( न्या० म० ४ पृ० ६ ) ( मु० ४ पृ० १७० ) ( त०
दी० ४ पृ० २८ ) ( ग० शक्ति० पृ० ४१ ) । जातिवाचकपदा-
ज्जातिबोधः शाब्दः । व्यक्तिबोधस्त्वौपादानिक एवेति श्रीकरमतम् । अत्रौ-
पादानिकत्वं च उपादानमर्थापत्तिस्तव्प्रयोज्यत्वम् जातिकारणत्वं वा
(ग० शक्ति० पृ० ४६ ) । व्यक्तेरपि बोधः शब्दादेव न त्वाक्षेपा-
दितः । व्यक्तिशाब्दबोचे शक्तिविरहो नानुपपत्ति प्रयोजयति । लक्षणात
एव तदुपपत्तिरिति मण्डनाचार्यमतम् ( ग० शक्ति० पृ० ४६ ) ।
आख्या संज्ञात्मकं नाम । यथा पश्चादुमाख्यां सुमुखी जगाम ( कुमा० )
इत्यादौ ।
आख्यातम् –तिङ्-प्रत्ययानाम् आख्यातम् इति संज्ञा । अतोत्रायात-
पदेन तिप् तस् झिं इत्यादयोधदश प्रत्यया वैयाकरणसंमता गृह्यन्ते ।
तिङ्प्रत्ययार्थस्तु [ क ] कृतिः । यथा चैत्रस्तण्डुलं पचतीमादौ तिबर्थः ।