This page has not been fully proofread.

म्यायकोशः ।
 
११५
 
चेति । वेदान्तिनोपि शब्दः श्रोत्रेन्द्रियं चापि छिद्राणि च विविक्तता ।
वियतो दर्शिता एते गुणा गुणविचारिमिः ॥ इत्याहुः (वाच०) । अत्रेदं
बोभ्यम् । प्रदेशवद्रव्यसंयोगात् अयमाकाशस्य प्रदेश: इति व्यवहारो
भवति इति ( त० व० पृ० १२८) । कारणद्रव्यं प्रदेशशब्देना-
मिषीयते (गौ० २१ २११८ ) । [ ख ] शब्दसमवायिकारणम् ।
[ग] शब्दगुणकम् । तथैकं विभु निस्यं च । तच लाघवादेकम् ।
सर्वत्र कार्योपलम्भाद्विमु । विभुत्वाच्च नित्यम् । तथापि कर्णशष्कुल्यव-
च्छिन्नं सत् शब्दग्राहकश्रोत्रेन्द्रियात्मकम् ( त० कौ० १ पृ० ३)
( मा० १० ० ४५-४६ ) ( वै० सू० २१११२८-३० ) ।
अत्र विभुत्वं च परममहत्परिमाणयोगः ( वै० उ० ७१११२२ )
(मु० १ पृ० १७) । अथवा सर्वमूर्तद्रव्यसंयोगित्वम् । इदमेव सर्व-
गतत्वमित्युच्यते (मु० १ पृ० ५७ ) । आकाशे षड्गुणास्तिष्ठन्ति ।
संख्या परममहत्परिमाणम् एकपृथक्त्वम् संयोग विभागः शब्दश्चेति
(३० सू० २११/३१ ) ( भा० प० श्लो० ३३ ) ( त० मा०
पृ० ३० ) ( त० कौ० पृ० ३ ) ( त० सं० ) ।
 
आकुञ्चनम् –( कर्म ) [ क ] शरीरसंनिकृष्टसंयोगहेतुः कर्म ( त० सं० )
( त० कौ० पृ० २०) । लक्षणं च स्वसंनिकृष्टदेशसंयोगजनक-
क्रियानुकूलक्रियात्वम् ( ३० व० पृ० ३८ ) । वक्रतासंपादकं कर्मेत्यर्थः
( त० दी० पृ० ३९ ) । [ख] सत्यारम्भ कसंयोगेप्यन्यसंयोगकार-
णम् । अङ्गकौटिल्यजनकं कर्माकुचनमुच्यते ॥ ( त० व० पृ० २४१ ) ।
[ग] ऋजुनो द्रव्यस्याप्रावयवानां तद्देशैर्विभागः संयोगश्च मूलप्रदेशै:
येन कर्मणा भवति अवयवी च कुटिल: संजायते तदाकुबनम् ( प्रशस्त •
पृ० ५६ ) ।
 
आकृति:-[क] आकृतिर्जातिलिङ्गारूपा ( गौ० २१२/६७ ) । तद-
थंच जातिलिङ्गमित्याख्या यस्याः । जातेर्गोत्वादेहिं साखादिसंस्थानविशेषो
लिङ्गम् । तस्य च परंपरया द्रव्यवृत्तित्वम् ( गौ० ० २ । २१६७ )।
यया जातिजतिकिङ्गानि च प्रख्यायन्ते तामाकृतिं विद्यात् । सा च