2023-02-20 00:54:23 by ambuda-bot
This page has not been fully proofread.
अन्वयबोघे जनिते नान्वयबोधान्तरं जनयति । स्वज॑न्यान्वयर्बोधवैधुर्य-
विरहात्ं । इतः सर्वे स्वरूपसन्तः शाब्दबोधे हेतवः न तु ज्ञात इति
शेयम् ( न्या० म० ४ ० २२) । [ छ ] पदार्थसंसर्गावगमप्राग-
भावः ( कु० ३ ) । [ज ] सममिव्याहृतपदस्मारितपदार्थजिंज्ञासा ।
यथा घटमित्युक्ते आनय पश्य इति आनयेत्युक्ते घटं पटं वा इति
जिज्ञासा ( कु० टी० १३ ) । [ झ ] एकपदार्थज्ञाने तदर्थान्वय-
योग्यार्थस्य यज्ज्ञानं तद्विषयेच्छेति शाब्दिका वदन्ति । [ ञ ] पदार्थाना
परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षति मायावादिनः ( वेदा० प० ) ।
आकाङ्क्षा द्विविधा । उत्थाप्याकाङ्क्षा उत्थिताकाङ्क्षा चेति । अत्रेदं
ज्ञेयम् । आकाङ्क्षा च शाब्दबोधगोचरेच्छा शब्देनैव विषयसिद्धिद्वारा
निवर्त्यते । अत्रायं न्यायः । शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते इति । अनेन
शब्दकल्पना आवश्यकी इति विज्ञेयम् । (त० प्र० ख० ४ पृ० २ ) ।
आकार: - १ विषयता निरूप्यनिरूपकभावापन्नतत्तद्विषयता वा । यथा
अयं घटः इत्याकारकं ज्ञानमित्यादौ तादृशविषयता ( वाक्यार्थ० २
पृ० २० ) । २ अमेदः ( तादात्म्यम् ) । यथा इत्याकारकं ज्ञानमित्यादौ
( वाक्यार्थ० ) । यथा वा तथा चायम् इत्याकार उपनय इत्यादौ
( दीधि० पृ० १७० ) । ३ अभिनयः । उदाहरणं तु. पूर्वोक्तमेव
इत्याकार उपनय इति । ४ अवयवसंस्थानविशेष इति काव्यज्ञा
बदन्ति । ५ सांख्यास्तु अभेदस्थानीयः पदार्थविशेषः विषयिताविशेषो
वा । यथा यत्संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षमित्यादौ इत्याहुः
( सां० सू० ) । ६ वर्णविशेष आकार इति शाब्दिकाः । ७ अतथा-
भूतस्य तथाभूतेन सामान्यम् । तद्यथा स्थाण्वाकारः पुमान् इत्यत्र पुरुषस्य
स्थाणोराकारः पुरुषेण यत् सामान्यम् सः ( न्या० वा० ११ १२ १३-१४
पृ० ७६ ) ।
आफारकत्वम् – विषयिताविशेषः । यथा घटपदात् घटत्वविशिष्टो बोद्धव्यः
इत्याकारकत्वविशिष्टेच्छेयादौ ( म०प्र० ४ १० ३७ ) ।
१५ व्या० को०