This page has not been fully proofread.

११२
 
आकाविरहात् (त० कौ० ४ १० १७ ) ( स० सं० ) । तदर्यस्तु
यस्य येन विना स्वार्थान्वयाननुभाषकत्वम् तस्य तत्पदसंमिधानम् इति
(चि०) । [ख] स्वरूपयोग्यत्वे सत्यजनितान्वयबोधजनकत्वम्
( तर्का० ४ पृ० १०) । तेन घट: कर्मत्वम् आनयनम् कृतिः इत्यत्र
नान्वयबोधः । स्वरूपायोग्यत्वात् । तथा अयमेति पुत्रो राज्ञः । पुरुषोप-
सार्यताम् । इत्यत्र राज्ञः पुरुषः इति नान्वयबोधः । पुत्रेण जनितान्वय-
बोधकत्वात् ( तर्का० ४ १० १० ) । [ग] यत्पदं यत्पदेन सह
यादृशानुभवजनकं भवेत् तत्पदस्य तत्पदसमभिब्याहारस्तादृशान्वयबोध
आकाङ्क्षा । भवति हि नामपदम् उत्तरवर्तिविभक्तिपदेनैव सहान्वय-
बोधकम् । अतस्तत्समभिव्याहारस्तादृशान्वयबोध आकाङ्क्षा एव
घट: कर्मत्वम् आनयनम् कृतिः इति बाक्यात् घटमानय इतिवत् न
घटकर्मकानयनानुकूलकृतिमान् इति बोधः । भावात् (न्या
म० ४ पृ० २१ ) । [घ ] पदस्य पदान्तरव्यतिरेक प्रयुक्तान्बयाननु-
भावकत्वम् ( त० सं० ४ ) ( कु० ) (मु० ४ पृ० १८८) । तदर्थक्ष
यत्पदस्य यत्पदाभावप्रयुक्तमन्वयबोधाजनकत्वं तत्पदसममिव्याहृततत्पद-
त्वम् (नील० ४१० ३२) (मु०) । [ङ ] यस्य पदस्य येन पदेन विना-
न्वयबोधजनकत्वं नास्ति तस्य पदस्य तेन पदेन समभिव्याहार आकाङ्क्षा
( त० कौ० २१० १६ ) ( प्र० प्र०) । यथा घटमानयेसादौ क्रिया-
पदकारकपदयोराकाङ्क्षा । अत्र कारकपदस्य क्रियापदेन विना घटकर्मक
मानयनम् इत्यन्वयबोधजनकत्वाभावात्कारकपदस्य क्रियापदेन सहा-
काङ्क्षा । एवं क्रियापदस्य कारकपदेनापि सह बोध्या ( प्र० प्र० )
( त० कौ० पृ०१६ - १७ ) । वस्तुतस्तु प्रत्यये प्रत्युत्तरत्वमेवाकाङ्क्षा
( मु० ४ पृ० १८८) । एवं वैयाकरणमते विभक्तिपात्यायात-
क्रियाकारकपदानां परस्परं विना परस्परस्य न स्वार्थान्यवानुमायकत्वम्
( वाच० ) । [ ] ] प्रकृतान्वयबोधसमानाकारलजन्यान्वयबोधविरहः
( न्या० म० ४ १० २२ ) । अतो घटमानयति इति पदं