This page has not been fully proofread.

न्यायकोशः ।
 
१११
 
भवेत् । यदि पूर्व साधनम् असति साध्ये कस्य साधनम् । अथ पश्चात्
असति साधने कस्येदं साभ्यम् । अथ युगपत्साभ्यसाधने द्वयोर्विद्य-
मानयोः किं कस्य साधनं किं कस्य साध्यमिति हेतुना न विशिष्यते ।
अहेतुना साधर्म्यात्प्रत्यवस्थानमहेतुसमः (वात्स्या० ५/१/१८) (नील०
पृ० ४४ ) । प्रतिकूलतर्कदेशनाभासोयम् इति बोभ्यम् ( गौ० वृ०
५।१।१८ ) । हेतुसमेति पाठे तु कालत्रयेपि हेतुत्वस्यासंभवकथनं
हेतुसमेत्यर्थ: ( नील० पृ० ४४ ) । [ ख ] कालसंबन्धखण्डनेनाहेतु-
तया प्रत्यवस्थानम् । अयमर्थः । दण्डादिकं घटादेर्न पूर्ववर्तितया कारणम् ।
तदानीं घटादेरभावात् कस्य कारणं स्यात् । अत एव न घटाद्युत्तर-
काळवर्तितयापि । न वा समानकाळवर्तितया । तुल्यकालवर्तिनोः सव्ये -
तरविषाणयोरिवाविनिगमनापत्तेः । कारणमात्रखण्डनेन ज्ञप्तिहेतोरपि
खण्डनाच तदसंग्रहः (गौ० दृ० ५११११८ ) । [ग ] कालत्रयेपि
हेतुत्वासंभवेना हेतुत्वकथनम् (नील० पृ० ४४ ) ।
 
अहोरात्रम्-लब्बक्षरसमा मात्रा निमेषः परिकीर्तितः । अतः सूक्ष्म-
तरः कालो नोपलभ्यो भृगूत्तम ॥ नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं पर
माणुतः । द्वौ निमेषों त्रुटिर्ज्ञेया प्राणो दशत्रुटिः स्मृतः ॥ विनाडिका तु
षट् प्राणास्तत्वष्ट्या नाडिका स्मृता । अहोरात्रं तु तत्पष्टया नित्यमेव प्रकी-
र्तितम् ॥ त्रिंशन्मुहूर्ताच तथा अहोरात्रेण कीर्तिताः (पु० चि० पृ० २ ) ।
 
r
 
आ.
 
आकर्षणम्—गतिहेतुविकर्षणम् । यथा शाखां ग्राममाकर्षति देवदत्त
इत्यत्र धात्वर्थः । अत्र प्रामकर्मकं यच्छाखागमनं तदनुकूलविकर्षणवान्
इति बोधः । विकर्षणं नम्रीकरणम् ( श० प्र० पृ० ९९ ) ।
आकस्मिकम् – यत्किंचित्कारणानियम्यम् ( दि० १ प्र० ६३ ) । यथा
अकस्मादेव भवति कार्य न किंचिदपेक्षमिति तदेतन्मतमित्यादौ ।
 
आकाङ्क्षन -[ क ] अभिधानापर्यवसानम् । इयं च ज्ञाता सती शाब्दबोघे
 
-
 
शब्दस्य सहकारिणी । अत एव गौरवः पुरुषो इस्तीत्यादौ नान्वयबोधः।