2023-02-20 00:54:23 by ambuda-bot
This page has not been fully proofread.
880
न्यायकोचः ।
३ महत्तत्त्वजन्यः पञ्चतन्मात्रादीनां कारणीभूतस्तत्त्वविशेषोहंकार इति
सांख्याः । तन्मते वैकारिकतामसमेदेन द्विविधोहंकार इति बोभ्यम् । बाद
रायणाचार्यास्तु वैकारिकतैजसतामसमेदेन त्रिविधोहंकार इति प्राहुः ।
अहः – १ संपूर्णादित्यमण्डलदर्शनयोग्यः कालः ( वै० उ० ) । यथा
अहो अहोभिर्महिमा हिमागमे ( नैषध ० ) इत्यादौ । २ कचित् दिन-
रात्रिसमुदितः कालः । यथा मासैदशभिर्वर्ष दिव्यं सदहरुप्यते
( सू० सि० ) । यथा वा विप्रः शुध्येदशाहेन द्वादशाहेन भूमिपः
( मनु० ५/८३ ) इत्यादौ । ३ अहोरात्रसाध्यः एकः सोमयागो
वेदे अहःशब्देनोच्यते । तादृशानामहर्विशेषाणां गण: जडह:
( पु० चि० पृ० १०) ।
अहम् --[ क ] तत्कालीनस्वातन्त्र्योच्चारयितृचैत्रत्वादिविशिष्टः । अत्र
स्वातत्र्योक्त्या च वाच्यस्त्वया मद्वचनात्स राजा इत्यादौ न मत्पदा-
कवेर्बोध: ( दि० ४ पृ० १७९ ) । अत्र स्वतन्त्रोच्चारणं च
वाक्यान्तरस्थक्रियाकर्मतया स्वघटितषाक्यार्थ प्रत्यायनेच्छानधीनस्वोच्चार-
णम् ( ग० शक्ति० पृ० २७ ) । [ ख ] स्वोच्चारणकर्तृतावच्छेदक-
धर्मावच्छिन्नः । यथा अहं गच्छामीत्यादावस्मदर्थः ( ग० शक्ति०
पृ० २६–२७ ) । अत्र स्वोच्चारण कर्तृतावच्छेदकावच्छिन्नविषयकत्व-
स्वजन्यत्व एतदुभयसंबन्धेन अस्मत्पदप्रकारकबोधविषयकः संकेतः अस्म-
त्पदस्थलेभ्युपेयते ।
अहिंसाव्रतम् – न यत्प्रमादयोगेन जीवितव्यपरोपणम् । चराणां स्थावराणां
च तदहिंसाव्रतं मतम् ॥ ( सर्व० सं० १० ६५ आईत० ) ।
अहीनः –आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः (जै० न्या० अ० ३
पा० ३ अवि० १३ ) ।
-
अहेतुसमः ( जाति: ) [ क ]
५११११८ ) । हेतु साधनम् ।
त्रैकाल्यासिद्धेर्हे तोरहेतुसमः ( गौ०
तत् साभ्यपूर्वम् पश्चात् सह वा