This page has not been fully proofread.

याकोम।
 
असूपा च कोपमूलिका ( रू० म० पृ० १०३) । [ख] शाब्दिकास्तु
शौचाचासदिगुणविषये दम्भादिकसत्वरूपदोषारोपानुकूलश्चित्तवृत्तिवि-
शेषः । यथा हरये असूयतीत्यादी इत्याहुः ( ल० म० पृ० १०३ ) ।
[ग ] परगुणादौ द्वेष: ( गौ० वृ० ४ । १ । ३ ) । [घ ] गुणद्वेषः ।
यथा पुत्रायासूयतीत्यत्र धात्वर्यः । अत्र पुत्रस्य गुणं द्वेष्टि इत्याकारको
बोध: ( स० प्र० पू० ८७ ) ।
 
अस्तिकायः – पदार्थः । स च पञ्चविधः । जीवाकाशधर्माधर्मपुद्गला-
स्तिकायमेदात् । अत्र जीवादीनां पुद्गलान्तानां पचानां द्वंद्वः । तत-
थास्तिकायशब्देन कर्मधारयः समासः । एवं च जीवादीनां पञ्चानाम्
अस्तिकाय इति संज्ञा बोध्या । एतेषु पञ्चसु तत्वेषु कालत्रयसंबन्धि
तया अस्तीति स्थितिव्यपदेशः । अनेक प्रदेशत्वेन शरीरबत्कायव्यपदेशः
( सर्व० सं० पृ० ६९ आईत० ) ।
 
अस्तित्वम् - [ क ] कालसंबन्धित्वम् ( दि० १) (प० मा० ) ।
यथा घटोस्तीत्यादौ घटादेरखिम् । [ ख ] अस्-शब्दवदस्यार्थोनु-
संधेयः ।
 
—–अनादानमदत्तस्यास्तेयव्रतमुदीरितम् ( सर्व० सं० १० ६५
 
अस्तेयत्रतम्
 
आई० ) ।
 
अस्मद् – अहम् - शब्दबदस्यार्थोनुसंधेयः ।
 
अस्मिता
 
सत्वपुरुषयोरहमस्मीत्येकतामिमानः अस्मिता । तदप्युक्तम् दृग्द-
र्शनशक्तयोरे कात्मत्वाभिमानोस्मिता इति ( सर्व० सं० पृ० ३६२
पातञ्ज ० ) ।
 
-
 
अहंकारः - १ अहमित्यभिमानः । स च शरीरादिविषयको मिथ्याज्ञानविशेष
उच्यते । स च दोषनिमित्तानां शरीरादीनां तस्वस्यानात्मत्वस्य ज्ञानानिवर्तते ।
आत्मत्वेन हि शरीरादौ मुझन् रजनीयेषु रज्यति कोपनीयेषु कुप्यति (गौ०
वृ० ४२२१ ) । २ अभिमानाअयोन्तःकरण महंकार इति मायावादिनः