This page has not been fully proofread.

न्यायकीकर।
 
पार्थिवं तमः कृष्णरूपवत्वात् इति । एवमात्रयासिद्धिरप्युभयथा अन्यतरा-
सिद्धिरुभयासिद्धिश्व ( प्रशस्त० २०२९) । असिद्धो हेतु साध्य-
सम इत्युच्यते ( वात्स्या० ११२१८ ) ( गौ० १० ११२१८ ) ।
 
असिद्धिः - ( हेतुदोषः ) [ क ] परामर्श प्रतिबन्धकज्ञानविषयो धर्मः
( त० कौ० २ पृ० १४ ) । अत्रेदं बोध्यम् । यत्र योसिद्धिस्तत्र तया-
प्योप्यसिद्धिरेवेति (वै० वि० ३।१११५ ) । [ ख ] व्यमिचाराधन्य-
परामर्श प्रतिबन्धकतावच्छेदकधर्मवत्वम् ( न्या० म० २ १० २१ ) ।
[ग] साधारण्यासाधारण्यानुपसंहारित्वमिन्नं ज्ञानस्य विषयतया परा-
मर्शविरोधितावच्छेदकं रूपमसिद्धिः (दीधि० २ पृ० २१५ - २१६) ।
सा चासिद्धिः आश्रयासियाद्यन्यतमा ( मु० २ पृ० १६१ )
( गौ० वृ० ११२१८ ) ( चि० २ १० १०२ ) । यथा काञ्चनमय-
हृदः काञ्चनमयवहिमान्काञ्चनमयघूमादित्यादौ काञ्चनमयत्वाभाववज्र-
दादिः । आश्रयासियाद्यन्यतमेत्यस्य आश्रयासिद्धिः स्वरूपासिद्धिः
व्याप्यत्वासिद्धि क्षैतासामन्यतमेत्यर्थः । अत्र परामर्शविषयाभावत्वेनानुग-
तेन त्रयाणामसिद्धत्वेन संग्रहो महर्षिणा कृत इति न विभागविरोधः
हेत्वाभासाधिक्यं वा । अत एव ये व्याप्तिविरहपक्षधर्मताविरहरूपास्ते
असिद्धिमेदमध्यमभ्यासते तदन्ये च यथायथं व्यभिचारादय इति
• सिद्धान्तप्रवादोपि ( चि० २ १० १०२) । उदयनाचार्यास्तु पक्ष-
धर्मताज्ञानाभावः असिद्धिः । व्याप्तस्य पक्षधर्मतया प्रमितिः सिद्धिस्तदभावः
असिद्धिरित्याहुः ( ग० बाघ ० ) । असिद्धिस्विविधा । माश्रयासिद्धिः
स्वरूपासिद्धिः व्याप्यत्वासिद्धिश्चेति ( चि० २ पृ० १०२) (गौ०
वृ० ११२१८) (वै० वि० ३।१।१५) ( न्या० म० २१० २१ ) ।
प्रकारान्तरेण असिद्धिश्चतुर्विधा व्याप्तेः पक्षस्य हेतोश्च तज्ज्ञानस्याप्य-
भावतः ( ता० र० लो० ८५ ) इति ।
 

 
अद्यया- [ क ] गुणिनि दोषाविष्करणम् । यथा शत्रने असूपतीत्यादौ
धात्वर्यः । अत्र विषयताविशेष एव चतुर्थ्यर्थः (ग०० का० ४)।