This page has not been fully proofread.

न्यायकोशः ।
 
कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयो गृह्यन्ते । स्वार्थ-
बोधकत्वे सतीत्यत्र स्वार्थश्च स्वीयशक्तिमहे विशेष्य इति विवक्षणीयः ।
अत एव शरैः शातितपत्रः चैत्रस्य दासभार्येत्यादौ न समस्यमानस्य
शातितदासपदादेः सापेक्षता । पदार्थैकदेशशातनदासत्वादावेव शर-
करणकत्वचैत्रनिरूपितत्वादीनामन्वयात् ( ग० न्यु० का० १) ।
ऋद्धस्य राजमातङ्ग इत्यादौ वृत्तिः राजमातङ्ग इति समासवृत्तिः ।
तदघटकं पदं ऋद्धस्येति पदम् । तदर्थान्वितः खार्थ: राजपदार्थः ।
तद्बोधकत्वे सति वृत्तिजन्यो बोधः राज्ञो मातङ्गः इति बोधः । तादृशबोधे
प्रकारताश्रयः विशेषणम् राजा । तद्बोधकत्वं राजपदेस्ति इति लक्षण-
समन्वयः । अत्र ऋद्धपदार्थस्य राजपदार्थेन्वयो न भवति । सामर्थ्या-
भावात् । तत्तदर्थ विशेष्यकान्वयबोधं प्रति तत्तत्सामर्थ्यस्य प्रयोजकत्वात् ।
समर्थः पदविधिः ( पा० सू० २११११ ) इति सूत्रव्याख्यानावसरे
तथैवोक्तत्वादिति । एवं च ऋद्धस्य राजमातङ्ग इत्यत्र राजमातङ्ग इति
समासः असाधुरेव । राजपदस्य समासाघटकऋद्धपदसापेक्षत्वादिति ।
वृत्त्पघटकेत्यादिलक्षणे ऋो राजमातङ्ग इत्यादौ मातङ्गपदस्य सापेक्षत्व-
वारणाय विशेष्यदलम् ।
 
असिद्धः - ( हेत्वाभास ) [ क ] यत्र व्याप्तिः पक्षधर्मत्वं वा नास्ति सः
असिद्धः (वै० वि० ३/१/१५) । असिद्धत्वं च लिङ्गत्वेनानिश्चित-
त्वम् । [ ख ] व्याप्तिपक्षधर्मतान्यतररहितो हेतुः ( प्र० प्र० ) ।
यथा घटो द्रव्यं श्रावणत्वादित्यादौ श्रावणत्वादिर्हेतुरसिद्धः । असिद्ध-
स्त्रिविधः । आश्रयासिद्धः स्वरूपासिद्धः व्याप्यत्वासिद्धश्चेति ( त० सं० )
( त० कौ० २ पृ० १४ ) (प्र० प्र० ) ( भा०प० लो० ७६ ) ।
प्रकारान्तरेण असिद्धचतुर्विधः । उभयासिद्धः अन्यतरासिद्धः तद्भावासिद्धः
अनुमेयासिद्धश्चेति । तत्र उभयासिद्धः उभयोर्वादिप्रतिवादिनोरसिद्धः हेतुः ।
यथा नित्यः शब्दः सावयवत्वात् इति । अन्यतरासिद्धः वादिप्रतिवाद्य-
म्यतरस्यासिद्धो हेतुः । यथा कार्यत्वादनित्यः शब्द इति । तद्भावासिद्धः
स्वसद्भावासिद्धः । यथा धूमाभावेझ्यनुमाने । अनुमेयासिद्धो यथा