This page has not been fully proofread.

न्यायकोचः ।
 
-
 
इण्डादीनां कार्यस्वातिरिक्तो यो धर्मः घटत्वादिः तदवच्छिन्ना या घटनिष्ठा
कार्यता तन्निरूपितकारणतावत्वादसाधारणकारणत्वमिति । [ग]
साधारणकारणभिन्नकारणत्वम् ( म० प्र० १ १०५ ) ।
असाधारणत्वम् - १ ( हेतुदोषः ) सर्बसपक्षव्यावृत्तत्वम् (चि० २ सय ०
पृ० ८९ ) (मु० २ पृ० १५९) । अयं चासाधारणानै कान्तिकहेत्वाभास-
निष्ठो दोष इति विज्ञेयम् । यथा शब्दो नित्यः शब्दत्वादित्यादौ शब्दत्वस्य
असाधारणत्वम् (न्या० म० २१० २० ) । एतज्ज्ञानं चानुमितेः साक्षात्प्र-
तिबन्धकम् । नित्येष्वनित्येषु च कापि शब्दत्वस्य हेतोरदर्शनेन हेतुज्ञानेपि
शन्दे नित्यत्वसंशयस्यानिरासात् । २ असाधारणकारणत्ववदर्थो द्रष्टव्यः ।
असाधारणधर्मः – लक्ष्यतावच्छेदकसमनियतो धर्मः । यथा गोर्लक्षणं हि
सास्त्रादिमत्त्वम् । स एवासाधारणधर्म इत्युच्यते ( त० दी० ११० ४ ) ।
अत्र धर्मे असाधारणत्वं च तदितरावृत्तित्वे सति सकलतद्वृत्तित्वम् ( त०
प्र० १ ) । अथवा लक्ष्यतावच्छेदकसमनियतत्वम् ( त० दी०
पृ० ४ ) । लक्ष्यतावच्छेदकव्यापकले सति लक्ष्यतावच्छेदकव्याप्यत्वमित्यर्थः
( नील० १ पृ० ४ ) । भवति हि सास्नादिमस्वं लक्ष्यतावच्छेदकीभूत-
गोत्वस्य व्यापकं व्याप्यं चेति । स चासाधारणधर्मो द्विविधः । व्यावर्तकः
अव्यावर्तकश्च । आयो गोः सानादिमस्वम् । द्वितीयः सप्तपदार्थानाम
मिधेयत्वम् ( सि० च० ११० ५ ) । अयमाशयः । सप्तपदार्थातिरिक्त-
पदार्थाप्रसिद्ध्या तद्वेदासंभवेनाभिधेयत्वस्य व्यावर्तकत्वं न संभवतीति ।
असाधारण्यम् - असाधारणत्ववदस्यार्थोनुसंधेयः ।
 
-
 
असाधुत्वम् - महाजनपरिगृहीतव्याकरणस्मृतिनिषिद्धत्वम् ( चि०४ ) ।
यथा अचीक्रमतेत्यादिप्रयोगस्य स्वर्णस्तेयादेख यथाक्रममसाधुत्वम् ।
असामर्थ्यम् – वृत्त्यघटकपदार्थान्वितस्वार्थबोधकत्वे सति वृत्तिजन्यबोधीय-
प्रकारताश्रयस्वार्थबोधकत्वम् । यथा ऋद्धस्य राजमातङ्ग इत्यादी ऋद्ध-
पदार्थस्य राजपदार्थेनान्वये विवक्षिते राजपदस्वासामर्थ्यम् (ग० म्यु०
का० १) । इदमसामर्थ्यमेव सापेक्षत्वम् अपेक्षा वेत्युच्यते समासाथ-
साधुत्ने प्रयोजकं च भवतीति बोध्यम् । इतिशब्देनात्र वैयाकरणसंमताः