This page has not been fully proofread.

:
 
विपक्षाच घटादेर्म्यावृतम् पक्षे शब्दे व वर्तत इश्यसाधारणम्
(चि०
१० २ १० ८८ ) । अत्र प्राचीनमते असाधारणत्वज्ञानं हि साक्षा-
दनुमितिप्रतिबन्धकम् । तथाहि शब्दत्वं हि नान्वयी हेतुः । दृष्टान्ता
भावात् । किंतु व्यतिरेकी । तथाच यो हेतुः यद्धर्मवतो व्यावृतः स
स्वाये सद्धर्मामागं साधयति । यथा घूमो वहयभाषवतो जलहदादे-
यित्तः स्वाश्रये पर्वतादौ वहषभावाभावं ( वहिम् ) साधयति । तथा
शब्दत्वं नित्यत्ववतो गगनादे: सपक्षायावृत्तमिति स्वाश्रये शब्दे नित्यत्वा-
भावं ( अनित्यत्वम् ) साधयेत् । एवं नित्यम्वाभाववतो घटादेर्विपक्षात्
व्यावृत्तमिति स्वाश्रये शब्दे नित्यत्वाभावाभावं (नित्यत्वम् ) अपि साधयेत् ।
परंतु नैवैकत्र शब्दे नित्यत्वानित्यत्वयोः संभवः । तयोर्विरोधात् । तस्मा-
च्छन्दत्वे असाधारणत्वज्ञाने सति न साभ्यानुमितिरिति ( त०
कौ० २ पृ० १३-१४ ) ( चि० २ १० ८८ ) ( दीवि० २
पृ० १९६-१९७)। [ग] साभ्यासमानाधिकरणो हेतुः । यथा
शब्दो नित्यः शब्दत्वादित्यादौ नियत्वासमानाधिकरणं शब्दत्वमसाधारणो
हेतुः (मु० २ पृ० १५९ ) ( गौ० १० ११२१५ ) । इदं लक्षणं च
नवीनमतानुसारेणोक्तम् । प्राचीनमते त्वयं हेतुर्विरुद्ध एवेति मन्तव्यम् ।
नवीनमते असाधारण्यं साभ्यासामानाधिकरण्यम् । एतस्य साभ्यसहचार-
ग्रहप्रतिबन्धेन व्याप्तिग्रह प्रतिबन्धो दूषकताबीजम् (गौ० १० ११२१५) ।
२ ( जाति: ) निब्यसमविशेषः । स च त्रिविषः युक्ताङ्गदीनत्वम्
अयुक्ताङ्गाधिकत्वम् अविषयवृतित्वं चेति ( सर्व० पृ० १५३ पूर्ण० ) ।
 
Sp
 
असाधारणकारणत्वम् - [क ] कार्यस्थानवच्छिन्नकार्यतानिरूपितकारण-
ताश्रयरमम् ( त० प्र० ) ( वाक्य० ११० १० ) । [ ख ] कार्यत्वा-
तिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालिवन् । यथा बठत्वा-
बच्छिमं प्रति दण्डस्यासाधारणकारणत्वम् (न्या० बी० ११० ८ ) ।
अत्रेदं बोध्यम् । कार्यमाञं प्रति कारणं कालादि इत्येष व्यवहारात्काला-
दीनां साधारणकारणत्वम् । दण्डादिकं कार्यमात्रं प्रति कारणम् इति न
व्यवहारः । अपि तु घटादिकं प्रति कारणं दण्डादि इत्येव व्यपहारा-
१४ म्या० को●