This page has not been fully proofread.

तन्तुसंयोगस्य एकस्मिन् तन्तौ प्रत्यासत्तिरस्ति इति क्षणमन्वो बोध्यः
( मु० १ पृ० ५० ) । इयं च असमायिकारणता लम्वी इति संज्ञां
लभते । खघुप्रतिपत्तिकत्वात् ( बै० उ० २ । १ । २२ ) । द्वितीया यथा
तन्तुरूपाणां पटरूपं प्रति कारणता (बै० उ० २११/२२) (५/२/२४)
( त० मा० पू० ४ ) । तथाहि स्वगतरूपादिकं प्रति समवाधिकारणं
पटः । तेन सह तन्तु रूपस्यैकस्मिन्तन्तौ प्रत्यासत्तिरस्तीत्यसमवायिकारणता
संगच्छते (मु० १ पृ० ५० ) । इयं च असमवायिकारणता महती
इति संज्ञां लभते । गुरुप्रतिपत्तिकत्वात् ( बै० उ० २१११२२ ) ।
असमवायिगुणत्वम् ~~-ज्ञानाद्यतिरिक्तभावकार्यासमवायिकारणगुणत्रम् (ल०
व० पृ० ३७ ) । असमवायिकारणगुणाच रूपम् रसः गन्धः स्पर्श:
एकत्वम् परिमाणम् एकपृथक्त्वम् स्नेहः शब्दः स्थितिस्थापक श्चेति
( मा० प० गु० लो० ८८) (मु० दि० गु० पृ० १९४) ।
आत्मविशेषगुणानां कुत्राप्यसमवायिकारणत्वं नास्तीति नियमेन तेषामस-
मवायिकारणत्ववारणाय ज्ञानाद्यतिरिक्तेति गुणविशेषणम् ( मुक्ता० १
पृ० ५०-५१ ) ।
 
असाधारण: – १ ( हेत्वाभासः ) [ क ] सपक्षविपक्षव्यावृतो हेतुः
( गौ० वृ० १ । २।8 ) ( मा०प० २ श्लो० ७४ ) ( त० सं० )
( चि० २ १० ८७ ) । [ख] सपक्षविपक्षम्भ्यावृत्तत्वे सति पक्षवृत्तिः ।
यथा शब्दो नित्यः शब्दत्वादिति । अयं चानैकान्तिकप्रमेद इति ज्ञेयम् ।
लक्षणं तु वक्ष्यमाणमसाधारणत्वमेव । अत्र सपक्षो निश्चितसाध्यवान् ।
विपक्षो निश्चितसाध्याभाववान् । पक्षः संदिग्धसाध्यवान् इत्ययों बोभ्यः
( गौ० वृ० ११४५ ) । इदं लक्षणद्वयं च (क-ख-इस्यत्र विद्यमानम्)
प्राचीनमतानुसारेणेति विज्ञेयम् । तन्मते पक्षवृत्तिले सति साध्यब्या-
पकीभूतामा प्रतियोगित्वमेवासाधारण्यम् । विरोधस्तु हेत्वाभासदोषः
साध्यासामानाधिकरण्यरूपोन्वयव्यातिप्रहविरोधी । इदं च साक्षादलुमि-
तिविरोधि ( दीधि ० २ १० १९७ ) । तद्विरोधिलं च असाधारण-
स्वशन्दव्यास्यानावसरे प्रदर्शयिष्यते । भन्न सन्दत्वं हि सपक्षामनाये.