2023-02-20 00:54:21 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
गुणत्वं तु न प्रकृतसाभ्यसाधने प्रयोजकम् । विशेषण मात्रस्यैव अका-
रणत्वस्य नित्यत्वसाघने समर्थत्वात् ( त० मा० पृ० १६-99 ) 1
असमवायिकारणम् – (कारणम् ) [ क ] समवायिकारणे प्रत्यासनं
कारणम् (प्र० प्र०) (मा० प० लो० १८) (त० कौ० १ पृ० ८) ।
कार्ये कार्य कारणैकार्य- एतदन्यतरप्रत्यासत्या समवायिकारणे प्रत्यासत्रं
ज्ञानादिमिश्रं यत् कारणं तदसमवायिकारणम् इति पर्यवसितोर्थः
( मु० १ पृ० ५१ ) । कार्येकार्यप्रत्यासत्तिरत्र समवायसंबन्धेन कार्य-
सामानाधिकरण्यम् । कारणैकार्थप्रत्यासत्तिश्चात्र स्वसमवायिसमवाय-
संबन्धेन कार्यसामानाधिकरण्यम् ( सि० च० १५० २१ ।
अत्रायं सिद्धान्तः । आत्मविशेषगुणानां ज्ञानादीनां कुत्राप्यसमवायिका-
रणत्वं नास्ति इति ( दि० १ पृ० ५१ ) ( मु० १ पृ० ५०/५१ )
( राम० १ पृ० ५०) । तेन असमषायिकारणत्वनिरासाय ज्ञानादीनां
पर्युदासः । असमवायिकारणं व कार्यस्थिती नियामकं भवतीति
बोष्यम् । [ख ] कार्येण कारणेन वा सह्रैकस्मिन्नर्ये समवेतत्वे सति
कारणं यत्तत् । यथा तन्तुसंयोगः पटस्यासमवायिकारणम् । तन्तुरूपं
व पटगतरूपस्यासमवायिकारणम् ( त० सं० ) । अत्र तन्तुसंयोगस्य
पटसमवायिकारणेषु तन्तुषु प्रत्यासत्वात् कारणत्वाञ्च तन्तुसंयोगः पट-
स्यासमवायिकारणमिति ज्ञेयम् । तथा तन्तुरूपस्य परंपरया पटादौ प्रत्या-
सन्नत्वात् ( तन्तुरूपस्य पटरूपादिसमवायिकारणे पटे स्वाश्रयसमवेतत्वेन
प्रत्यासन्नत्वात् ) कारणत्वाच लक्षणसमन्वयो बोभ्यः (त० कौ० १ पृ०
८ ) । अत्रेदं बोध्यम् । असमबायिकारणता च गुणकर्ममात्रवृत्तिर्भवति
(मा०प०को०२३) इति । गुणकर्मातिरिक्ते न वर्तत इत्येव तत्तात्पर्य न तु
यावगुणवृत्तिरिति । तेन ज्ञानादीनामसमवायिकारणत्वविरहेपि नोक्तिवि
रोधः । एवं चासमवायिकारणता द्विविधा । कार्येकार्थसमवायात् कारणै-
कार्यसमवायात् । तत्र प्रथमा यथा आत्ममनः संयोगस्य ज्ञानादिकं प्रति
कारणता । तन्तु संयोगस्य च पटं प्रति। तत्र कार्येण पटेन सह कारणस्य