This page has not been fully proofread.

न्यायकोशः ।
 
असंसर्गाग्रह:-~[क] बाधग्रहः प्रतिबन्धकग्रहो षा असंसर्गः । तस्याभावः ।
यथा प्राभाकरमते कार्यतावाचकलिङादिपदासममिब्याहारस्थले व्यवहा
रस्त्वसंसर्गाप्रहादेबेत्यत्र ( म०प्र० ४) । [ख] मेदाज्ञानम् । यथा सांख्य-
मते बुद्धिपुरुषयोरसंसर्गामहात्कर्तृत्वाद्यभिमान इत्यत्र ( दि०१ आत्म०पू०
१०५) । केचित्त असंसर्गस्य परस्परसंबन्धाभावस्याग्रहः अबोधः । यथा
मीमांसकमते इदं रजतमित्यादौ इदम् इति रजतम् इति च ज्ञानद्वयस्यापि
प्रवृत्तिजनकताप्रयोजकत्वेन परस्परसंबन्धाभावस्याबोध इत्यादुः (वाच ० ) ।
 
-
 
असत् – १ सत्तावद्भिनम् । यथा प्राचीननैयायिकमते सामान्यादिचतुष्टयम
सत् । २ तत्कालीन स्वजनका भाव प्रतियोगि । यथा घटपटादिकार्य
स्वखोत्पत्तेः : प्रागसत् ( बै० उ० ९/१/१ ) । ३ यत् कालसामान्या-
संबन्धि तत् । यथा शशशृङ्गकूर्मरोमादि इति मध्वाचार्यानुयायिनो वेदा-
न्तिनः । ४ नामरूपाभ्यामव्याकृतं कारणात्मना स्थितं सूक्ष्मरूपमव्य-
कमिति भायावादिनः । ५ अर्थक्रियाकारि । अकिंचित्करम् अमा-
वादिकमिति बौद्धा आहुः ( वाच० ) ।
 
C
 
असदर्थविषयकत्वम् – विशेष्यावृत्ति प्रकारकत्वम् । यथा शुक्तौ इदं रजतम्
इति ज्ञानस्य विशेष्यभूतमुक्तौ रजतत्वस्यावृत्तित्वेन असदर्थविषयकत्वम् ।
असद्धेतु: -( हेतुः ) हेत्वाभासवदस्यार्थोनुसंधेयः ।
असमर्थविशेषणः – ( स्वरूपासिद्धः ) यद्धेतुघटकं यत् विशेषणं साभ्य-
साधने अप्रयोजकं भवति तद्विशेषणविशिष्टः स हेतुः । यथा शब्दो नित्यो
गुणत्वे सत्यकारणत्वादिति । अत्र च गुणत्वविशिष्टमकारणत्वं हेतुः । तत्र
विशेषणं गुणत्वं तु न साध्यसाधने प्रयोजकं भवति । विशेष्याकारणत्व-
स्यैव नित्यत्वसाधनसामर्थ्यात् ( त० मा० १० ४६ ) ।
असमर्थविशेष्यः (स्वरूपासिद्धः) यद्धेतुघटकं यत् विशेष्यं साभ्यसाधने
अप्रयोजकं भवति तद्विशेष्यघटितः स हेतुः । यथा शब्दो निलः अकारणले
सति गुणत्वादिति । अत्र चाकारणत्वविशिष्टं गुणत्वं हेतुः । तत्र विशेष्यं
 
१ अकारीति पदच्छेदः ।
 
Meng