This page has not been fully proofread.

१०१
 
यस्मिन् किंचिदपि वस्तु समवायेन संबन्वेन न वर्तते यश्च कमिश्चिम
वस्तुनि समवायेन संबन्धेन न वर्तते सत्रायमसंबन्धः । यथा समवाये
अमावे च न किंचिद्वस्तु समवायेन वर्तते सोपि समवायः अभावश्च
न कस्मिंश्चिदपि वस्तुनि समवायेन संबन्धेन बर्तत इति समवाये अमावे
चायमसंबन्धोस्ति । स च असंबन्धः समवायत्वस्य अभावत्वस्य च
जातित्वे बाधक इति न्यायसिद्धान्तः । २ परस्परावच्छेद्यावच्छेदकभावा-
पद्मविषयितानिरूपकत्वशून्यत्वम् ( ग० अव० ) । अयं चैकवाक्यत्व-
विघटको गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात् इति जैमिनिसूत्र-
घटका संबन्धपदस्यार्थ इति विज्ञेयम् । यथा सुन्दरः पुरुषो दण्डी इति
वाक्यजन्यशाब्दबोधे पुरुषाशे दण्डसौन्दर्ययोर्विशेषणतया युगपनानखी-
कारे तयोः परस्परमसंबन्धः । वस्तुतस्त्वेतादृशबाक्यस्वरसात्सौन्दर्यस्य
विशेष्यतावच्छेदकत्वेन दण्डस्य विशेषणत्वेन मानाङ्गीकारे नायमसंबन्ध
दोषः । अपि तु पुरुषः सुन्दरो दण्डीत्यादावेव तादृशदोष इति ज्ञेयम् ।
असंभवः – ( लक्षणदोषः ) १ [ क ] लक्ष्यमात्रावृत्तित्वम् । यथा गोरे-
कशफत्वरूपलक्षणस्यासंभवः ( त० दी० १ १० ४ ) । संबन्धविशेषा-
बच्छिन्नलक्ष्यवृत्तित्वसामान्याभाव इत्यर्थः (नील० १ १० ४) । [ ख ]
लक्ष्यतावच्छेदकव्यापकीभूतो यः अमावस्तत्प्रतियोगित्वम् ( न्या० बो०
१ पृ० ३ ) । यत्र यत्र लक्ष्यतावच्छेदकं गोत्वम् तत्र तत्रैक-
शफत्वस्याभाव इति व्याप्तेरेकशफत्वाभावो लक्ष्यतावच्छेदकस्य व्यापको
भवतीति तत्प्रतियोगित्वमेकशफत्वे वर्तत इति बोध्यम् । [ग] लक्ष्ये
कापि लक्षणस्यावर्तनम् । यथा झुण्डदण्डवान् ब्राह्मण इति लक्ष-
णस्यासंभवः । कस्यापि ब्राह्मणस्य शुण्डदण्डाभावादसंभव इति भावः
(त० कौ० १० २१) । २ स्वरूपासिद्धिः । यथा गोरेकशफत्वस्य लक्षणत्वे
स्वरूपासिद्ध्यात्मको हेत्वाभासः ( त० भा० १० ५० ) । इदं च लक्ष-
णस्म ब्यावर्तकत्वाभिप्रायेणेति विज्ञेयम् (नील० १ पृ० १ ) । तयाहि ।
गौरितरेभ्यो भिद्यत एकशफत्वा दित्यत्रैकशफत्वात्मकहेतोः स्वरूपासिद्धिः ।
एतव्प्रपत्रस्त लक्षणशब्दव्याच्यानावसरे संपादयिष्यते ।