This page has not been fully proofread.

त्यायकोचः ।
 
कपिलवे बर्तत इति द्रष्टव्यम् । [ख] लक्ष्यैकदेशावृत्तित्वम् ।
यथा गोः कपिलत्वस्य लक्षणत्वाङ्गीकारे शुक्लगवि कपिलत्यस्याभावेन
अव्याप्तिः ( त० दी० १ १० ४ ) । लक्षणतावच्छेदकत्वामिमतसंब-
न्धेन किंचिलक्ष्यावृत्तित्वमित्यर्थः ( नील० १ पृ० ४ ) [ [ ग ]
लक्ष्यैकदेशे लक्षणस्यावर्तनम् । यथा शिखासूत्रवान् ब्राह्मणः इत्यस्य
लक्षणस्य संन्यासिन्यव्याप्तिः । संन्यासिनः शिखासूत्रवत्स्वाभावादिति
भाष: ( स० कौ० पृ० २१ ) । २ भागासिद्धत्वम् । यथा गोर्लक्षणस्य
शबलत्वस्य भागासिद्धि: ( त० मा०पू० ५०) (नील० १५० ४) । इदं
च लक्षणस्य व्यावर्तकत्वाभिप्रायेण । विस्तरस्तु लक्षणशब्दव्याख्यानावसरे
संपादयिष्यते । ३ हेत्वाभासविशेषः । हेत्वाभासशब्दव्याख्याने दृश्यम् ।
अव्याप्यवृत्तिगुणत्वम्-अव्याप्यवृत्तिवृत्तिर्गुणत्वव्याप्या च या जातिस्ता-
डशजातिमस्त्रम् ( दि० गु० पृ० १९४ ) । तादृशी जातिस्तु बुद्धित्व-
शब्दत्वादिः । अव्याप्यवृत्तिगुणा द्विविधाः दैशिकाव्याप्यवृत्तयः कालि-
काव्याप्यवृत्तयश्चेति । तत्र दैशिकाव्याप्यवृत्तयो बुद्ध्यादयोष्टौ शब्दः
भावना संयोगः विभागबेति । एते गुणाः प्रादेशिकगुणा इत्यपि व्यव-
ह्रियन्त इति बोभ्यम् । कालिकाव्याप्यवृत्तिगुणास्तु रूपादयः इति विज्ञेयम् ।
अव्याप्यवृत्तित्वम् स्वात्यन्ता भावसमानाधिकरणत्वम् ( त० दी० १
पृ० १३ ) ( मू० म० ) ( ग० ) । यथा वृक्षे कपिसंयोगतदत्यन्तामा-
वयोरव्याप्यवृत्तित्वम् । यथा वा संयोगेन द्रव्यस्याव्याप्यवृत्तित्वमते पर्वते
वहितदभावयोरव्याप्यवृत्तित्वम् । स्वात्यन्ताभाव समानाधिकरणत्वमित्यव
स्वस्याव्यन्ताभावेन सहकाधिकरणे वर्तमानत्वमित्यर्थः । स्वप्रतियोगित्व-
स्वसामानाधिकरण्य- एतदुभयसंबन्धेनाभाववस्वमिति निष्कर्षः (नील० १
पृ० १३ ) । तदर्थय स्वशब्देन कपिसंयोगाभावो गृह्यते । खस्य प्रति-
योगी कपिसंयोगस्तत्वं कपिसंयोगे वर्तते । तथा खसामानाधिकरण्यमपि
वर्तते । स्वस्य कपिसंयोगाभावस्य सामानाधिकरण्यमेकाधिकरणे वर्तमान-
त्वम् । तथा चैतादृशोभयसंबन्धेन कपिसंयोगाभाववस्वं कपिसंयोगे बर्तन
इति कपिसंयोगः अध्याप्पवृत्तिर्भवति । एवं कपिसंयोगाभावेप्यव्याप्यवृत्तित्वं